________________
324
सव्याख्यसर्वार्थसिद्धिसहिततत्वमुक्ताकलापे
सर्वार्थसिद्धिः
अन्यथा रसादिष्वपि संहतेषु तत्प्रसङ्गात् । एतेन देशैक्यमेव संघात इत्यपास्तं ; एकदेशान्वायनां त्रैकालिकानामेकसंघातप्रसङ्गात् । देशोऽपि तदातदा भिन्न एवेति चेन्न; क्षणभङ्गस्य निरसिष्यमाणत्वात् । न च ते देश आकाशादिरूपः ; तस्य युष्माभिरावरणाभावमात्रत्वज्ञापनात् । नचोपादानरूपः; स्पर्शरूपादीनां भिन्नभिन्नक्षणोपादानत्वाभ्युपगमात् ।
[जडद्रव्य
आनन्ददायिनी
प्रसङ्ग इति भावः । नैरन्तर्यमात्रेणेन्द्रियान्तरग्राह्यत्वाङ्गीकारे बाधकमाह—अन्यथेति—अविशेषादिति भावः । ननु दृष्टमेव जिघामि मधुरमेव पश्यामि इति प्रत्यभिज्ञानदर्शनादिष्टापत्तिरिति चेन्न, रसादीनामपि चक्षुरादिग्राह्यत्वे दर्शनमात्रेण रसादिग्रहणात् संशयाभावप्रसङ्गेन प्रत्यभिज्ञायास्तदनुमितधर्मिविषयत्वात् । ननु वनादौ देशैक्यस्य संघातत्वदर्शनादत्रापि तथास्त्वित्याशङ्कय निराकरोति - एतेनेति – देशस्यापि रूपादिस्वलक्षणमात्रत्वे द्वीन्द्रियग्राह्यत्वाभावात् प्रत्यभिज्ञानुपपत्तिः । रूपादे - राश्रयतयाऽभ्युपगतस्य एकस्य वस्तुनः संघातत्वे द्वीन्द्रियग्राह्यत्वे च तस्यैव द्रव्यत्वापत्तिः सधर्मकत्वापत्तिरित्यादिनेत्यर्थः । एतेनेत्यस्य रसादिष्वपि प्रसङ्गेनेत्यर्थमप्याहुः ॥ दूषणान्तरमप्याह-एकदेशान्वयिनामितिअतिप्रसङ्गपरिहारं शङ्कते । देशोऽपीति – अभिन्न देशकालं स्वलक्षणं संघात इति भावः । तस्य युष्माभिरिति - ' आकाशे हि पदार्थानामवस्थानं आकाश एव ह्यवकाशः स चावरणाभावः इति भावत्कवचनात् । तस्य शून्यतया रूपाद्यनाधारस्य संघातव्यवहारनिमित्तत्वाभावादिति भावः । भिन्नभिन्नक्षणेति – पूर्वपूर्वरूपस्पर्शोपादानत्वादु
1
"