SearchBrowseAboutContactDonate
Page Preview
Page 107
Loading...
Download File
Download File
Page Text
________________ सव्याख्यसर्वार्थसिद्धिसहिततत्वमुक्ताकलापे सर्वार्थसिद्धिः 1 नहि रूपमिदमिति पटादीन् कश्चित् क्वचित्प्रत्यति । किं तु तद्वदिति । सहोपलम्भनियमादि * हेतुचतुष्टयं च निरसि ष्यामहे । 2 * नच रूपादेर्धर्मिणश्च सहोपलम्भनियमः पीतशङ्खादिभ्रमे रूपमन्तरेण रूपिणः तमन्तरेण तस्य चोपलब्धेः । आनन्ददायिनी । यति नहीति । ननु वैपरीत्यप्रसङ्गो नोपपद्यते सहोपलम्भनियम मत्वर्थीयप्रत्ययनिरपेक्षसामानाधिकरण्यैकशब्दानुविद्धप्रत्यय प्रथमपिण्डग्रहणकालिकाभेदग्रहणरूपाभेदोपलम्भहेतुचतुष्टयस्य सत्त्वादित्यत्राह — सहोपलम्भनियमादीति । निरसिष्यामह इति । भेदाभेदनिरसनावसरे इत्यर्थः । असिद्धश्चायं प्रथमो हेतुरित्याहनचेति । रूपमन्तरेणेति —— स्वकीयरूपमन्तरेणेत्यर्थः । धर्मिज्ञानस्याप्यारोप हेतुत्वादिति भावः । तमन्तरेणेति —— शङ्खमन्तरेण तदीभावप्रकाशः 38 [जडद्रव्य 1 * हे तुचतुष्टयमित्यादि-बुद्धिसरे (२०) अभेदसाधकत्वं सहो - पलम्भनियमस्य ; तत्रैव (३२) अभेदावगाहित्वं निर्विकल्पकप्रत्ययस्य ; तत्रैव (९४) धर्मधर्म्यभेदसाधकत्वं मत्वर्थीयप्रत्ययनिरपेक्षसामानाधिकरण्यस्य निरसिष्यते इति विवेकः । 2 * नच रूपादेरित्यादिअत्र न्यायसिद्धाञ्जने (११) ' नचसहोपलम्भनियमान्नीलतदाधारादेरभेदः एकसामग्रीवेद्यत्वनियमात्तदुपपत्तेः । सहत्वतन्नियमाभ्यां भेदस्यैव स्थिरी - करणेन व्याघातात् । समस्य च सहोपलम्भनियमस्य शङ्खश्वैत्यादावसिद्धेः । असमस्यापि गन्धादौ । भास्वराध्वान्ताभास्वररूपाभ्यामनेकान्तत्वाच्च' इत्यन्ता सूक्तिरपि भाव्या । निर्विकल्पके शब्दानुवेधस्य बौद्धैरनङ्गीकारात् विकल्पस्य विपर्ययत्वेन च न ततोऽभेदासिद्धिरिति सर्वेषां
SR No.022392
Book TitleTattva Muktakalap
Original Sutra AuthorN/A
AuthorD Srinivasachar, S Narasimhachar
PublisherMysore Government Branch
Publication Year1933
Total Pages746
LanguageSanskrit
ClassificationBook_Devnagari
File Size41 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy