________________
न्यायालङ्कारालङ्कृता ।
८५
ज्ञानविरोधिसम्यग्ज्ञानसहचरं सम्यग्दर्शनम् । इत्येवं निषेधा. वबोधधुराधौरेयाणि विरुद्धस्वभावव्याप्यकार्यकारणपूर्वचरोत्तरचरसहचरभेदात् सप्तप्रकाराणि विधिरूपाणि विरुद्धोपलब्धिनामान्तराणि परिदर्शितानि ॥ १६ ॥
व्याख्यातं विधिरूपं साधनम् । अथ प्रतिषेधरूपं साधनं व्याजिहीर्षुस्तावत्प्रथमं विधिसाधकं तदाहविधिसाधकं प्रतिषेधरूपं विरुद्धस्वभावव्यापक-कार्य-कारण-सहचराऽभाव
पञ्चधा ॥१७॥ · विधेयार्थविरुद्धस्वभावव्यापककार्यकारणसहचराभावभेदात् पञ्चविधं प्रतिषेधरूपं साधनं विधिसाधननिपुणं भवति । तत्र विधेयार्थविरुद्धस्वभावाभावरूपं प्रतिषेधसाधनं यथा-वस्तुजातमनेकान्तात्मकमेकान्तस्वभावस्योपपत्तिपथानवलम्बिभावेनाऽभावात् । अत्र अनेकान्तात्मकत्व विधेयार्थविरुद्धस्वभावैकान्ततत्त्वाभावो विरुद्धस्वभावाभावहेतुः । व्यापकाभावो यथाअस्त्यत्र च्छाया औष्ण्यानुपलब्धेः, अत्र विधेयार्थच्छायाविरुद्धतापस्य व्यापकमौष्ण्यं तदभावो व्यापकाभावहेतुः। कार्याभावो यथा- अस्ति खल्वत्र प्राणभृति व्याधिविशेषो निरामयचेष्टाऽदर्शनात् , अत्र व्याधिविशेषलक्षणविधेयविरुद्धतदभावकार्यविशिष्टचेष्टाविरहः कार्याभावहेतुः । कारणाभावो यथा- अस्त्यत्र शरीरिणि कष्टमिष्टसंयोगाभावात् । अत्र कष्टरूपविधेयार्थविरुद्धसुखकारणेष्टसंयोगाभावः कारणाभावहेतुः। सहचराभावो यथा अस्त्यत्र मिथ्याज्ञानं सम्यग्दर्शनाऽदर्शनात् । अत्र मिथ्याज्ञानलक्षणविधेयार्थविरुद्धसम्यग्ज्ञानसहचरसम्यग्दर्शनाभावः सहचराभावहेतुः, इत्येवंविधिस्वरूपसाध्यगमकानि प्रतिषेधरूपाणि