________________
८६
प्रमाणपरिभाषाविरुद्धस्वभावव्यापककार्यकारणसहचरभेदात् पश्चप्रकाराणि विरुद्धानुपलब्धिनामान्तराण्यावेदितानि ॥ १७ ॥ * अथ प्रतिषेधप्रतिपत्तिप्रगुणं प्रतिषेधसाधनं ब्रूतेनिषेधसाधकं स्वभाव-व्यापक-कार्य-कारणपूर्वोत्तर-सहचराऽभावभेदात् सप्तधा॥१८॥ ___ प्रतिषेध्यार्थप्रतिषेधगमकं प्रतिषेधरूपं साधनं सप्तविधम् । तत्र स्वभावाभावरूपं यथा-नास्त्यत्र भूतले कुम्भ उपलब्धिलक्षणप्राप्तस्य तत्स्वभावस्यादर्शनात् , उपलब्धिर्ज्ञानं तस्य लक्षणानि कारणानि नेत्रादीनि तै पलब्धिलक्ष्यते जन्यते इति यावत् तानि प्राप्तो जनकत्वेनोपलब्धिकारणान्तर्भावात् स तथा दृश्य इत्यर्थस्तस्याऽदर्शनात् कुम्भाभावसिद्धिः, पिशाचादिभिर्व्यभिचारपरिहारार्थमुपलब्धिलक्षणप्राप्तस्येति विशेषणम् । व्यापकाभावो यथा-- नास्त्यत्र प्रदेशे पनसः पादपाऽदर्शनात् , अत्र निषेध्यार्थपनसव्यापकपादपाभावो व्यापकाभावहेतुः । कार्याभावो यथा- नास्त्यत्रा प्रतिबद्धसामर्यो धनञ्जयः धूमाभावात् , अत्राऽप्रतिबद्धसामर्यो धनन्जयो यदि स्यात्तदाऽवश्यं धूमः स्यात् ; धूमं प्रति ह्यप्रतिहतशक्तिके समुज्ज्वलति चित्रभानौ नियमेन भवनीयं धूमेनेति धूमलक्षणकार्याभावाद् विशिष्टकारणाभावो गम्यते इति विशिष्टकारणाभावं प्रति कार्याभावस्य गमकत्वं भवत्येव तदविनाभावित्वात्तस्य । कारणमात्रं तु कार्याभावेऽपि वर्वत्ति यथोष्णाऽयोगोलकेऽनलो धूमाभावे, नातस्तस्य तद्गमकत्वम् । कारणाभावो यथा- नात्र समस्ति धूमो धूमध्वजाभावात् कारणाभावे हि कार्य नियमेन नोदेतीति सुपरीक्षित कारणाभावे कार्याभावो निर्णीयत एव । पूर्वचराभात्रो यथा- न भावि मुहूर्तान्ते शकटं कृत्तिकोदया भावात् । उत्तरचराभावो यथा नोदगाद्भरणिर्मुहूर्तात्माक्