________________
न्यायालङ्कारालङ्कृता ।
८७
तत एव । सहचराभावो यथा- नास्त्यत्र समतुलायामुन्नामः, नामानुपदर्शनात , इत्येवं प्रतिषेधसाधनानि प्रतिषेधसाधनानि स्वभाव-व्यापक-कार्य-कारण-पूर्वचरो-त्तरचर-सहचरभेदात् सप्तप्रकाराणि अविरुद्धाऽनुपलब्धिनामान्तराणि निवेदितानि ॥१८॥
उक्तं साधनम् । अथ साध्यस्वरूपमाहअबाधिता-ऽभिमता-ऽनधिगतं साध्यम्॥१९॥
अबाधितत्वमभिमतत्वमनधिगतत्वमितित्रैरूप्यविशिष्टं साध्यम् । तत्र प्रत्यक्षादिबाधाशून्यत्वमबाधितत्वम् । अनेन वह्निधर्मिकानुष्णत्वादेः साध्यत्वव्युदासः । अभिमतत्वं च सिसाधयिषाविषयत्वम् । अनेन शब्दधर्मिकसर्वथानित्य: भावादेः साध्यत्वनिरासः, अनिष्टं हि जनस्य सर्वथा नित्यत्वं शब्दे इति नेदं सिसाधयिषाविषयः । अनधिगतत्वं पुनरनिश्चितत्वम् । तेन संशय-विपर्यया-ऽनध्यवसायाऽवलम्बितार्थस्य साध्यत्वप्रतिपत्तिः । एवम्भूतस्यैवार्थस्य हि साध्यत्वं सङ्गतिं गाते, निर्णयैकपदीमवतीर्णस्य का नाम साध्यता ?। यदाह- भाष्यकारो वात्स्यायनः “ नानुपलब्धे न निर्णीतेऽर्थे न्यायः प्रवर्तते किन्तर्हि संशयितेऽर्थे" इति ॥ १९ ॥ . इदानीमनुमेयधर्मविशिष्टो धर्मी साध्यमनुमेयधर्मो वेत्यारेकामपाकर्तुमाहतदनुमेयधर्मविशिष्टो धर्मी पक्षः
क्वचिदनुमेयधर्मः ॥२०॥
तदित्युक्तलक्षणं साध्यम् । अनुमेयधर्मेण वह्नयादिना विशिष्टो पर्वतादिर्धर्मी, एतच्चानुमानिकपतिपत्यवसरापेक्षातो बोद्धव्यम् । प्रतिनियतसाध्यधर्मविशेषणविशिष्टतया हि धर्मिणः साधयितुमिष्टत्वात् साध्यव्यपदेशः । पक्ष इति पर्याय एवा