________________
न्यायालङ्कारालङ्कृता ।
७९
धृमस्य धृमध्वजमनुमापयतश्चकासदास्ते तथा व्यवहितदेशेऽपि पर्वतादौ तदवस्थैव, इतरथा जलचन्द्रेऽप्यसौ कथं स्यात् ?; देशव्यवधानात् , अथ नेयमेवाऽत्र गमकत्वाङ्गं किन्तु कार्यकारणभावोऽपि । कार्य च किमपि कीदृशं भवति, तदिह धूमध्वजः स्वसमीपप्रदेशमेव धूमं जनयितुमधीशानः, नभश्चन्द्रस्तु व्यवहितदेशमपि, नाऽतो महानसधूमो महीधरकन्धराकोणचारिणमाशुशुक्षणिमनुमापयतीति चेत् । नन्वेवं धूमस्तद्देशेनैव पावकेनान्यथानुपपन्नः, जलचन्द्रमाः पुनरतद्देशेनाऽपि गगनेन्दुना इत्यन्यथानुपपत्तिमात्रनिर्णयसद्भावादेव साध्यसिद्धेः सम्भवात् कृतं जलाम्बरजैवातृकमण्डलान्तरालादेर्धर्मित्वपरिकल्पनाकदर्थनमात्रनिमित्तेन पक्षधर्मतोपवर्णनेन । __ सपक्षसत्त्वमप्यनौपयिकमेव, सत्त्वादेरगमकत्वापत्तेः । न च पक्षाद् बहिष्कृत्य किमपि कुटादि दृष्टान्तीकर्तुं युक्तं कुटादेरपि पटादिवद् विवादास्पदत्वेन पक्षाद् बहिष्करणाऽनुपपत्तेः, तथा च कथमयं निदर्शनतया शक्य उपदर्शयितुम् । प्रमाणान्तरात् तत्रैव "क्षणिकं प्राक् प्रसाध्य निदर्शनतयोपादानं भविष्यतीति चेत् । ननु तत्रापि कः सपक्षीकरिष्यते । यदि क्षणिकत्वप्रसाधनपूर्व पदार्थान्तरमेवेति चेत् , दुर्वारमनवस्थादौस्थ्यम् । अन्यथा तु न सपक्षः कश्चित् , यत एव च प्रमाणात् क्षणिकत्वनिष्टङ्कनं कुटे प्रकस्यते तत एव पटादावपि प्रकट्यतां पर्यासमपरप्रमाणोपन्यासालीकप्रागल्भीप्रकटनेन । ननु पक्षधर्मत्वानभ्युपगमे धवल एष प्रासादः काकस्य कालिम्न इत्यादेरपि हेतुत्वानुषङ्ग इति चेत् , उक्तोत्तरत्वादविनाभावबलेनैव साध्यानुमानोदयात् तत्र च तदभावात् , न हि प्रासादीयधवलिम्न्येव श्यामिका काकीयोपपत्तिमतीत्यस्ति नियमः, पक्षधर्मत्वाभ्युपगमे च शकटं मुहूर्तान्ते उदेष्यति कृत्तिकोदयात् । भूमेरुपरि सविता आलोकादित्याद्याबालगोपालप्रसिद्धानुमाना