________________
७८
प्रमाणपरिभाषा
श्चित् । नन्वस्ति तथाविधमपि स्थलं यत्र त्रिभिः पञ्चभिर्वा तैः परिरम्भेऽपि अविनाभावो नावकाशेत ?; अस्त्येव, तथाहि- स श्यामो मैत्रपुत्रत्वादिति अस्ति खल्विह तत्पदाभिधेयगर्भस्थमैत्रपुत्रे हेतुसद्भावः, सपक्षेष्वपि श्यामत्वेन सम्प्रतिपन्नेषु दृश्यमानेषु पञ्चसु मैत्रपुत्रेषु मैत्रपुत्रत्वसद्भावः, अश्यामेभ्यस्तदितरेभ्यो मैत्रपुत्रत्वव्यावर्तनाद्विपक्षाद् व्यावृत्तिरप्यस्ति, विषयवाधाभावादबाधितविषयत्वमप्यस्ति, प्रतिकूलसमबलप्रमाणाभावादसत्प्रतिपक्षत्वमप्यस्ति, न पुनरयं हेतुत्वेन कस्याप्यभ्युपगमविषयः। ननु नात्र विपक्षाद् व्यावृत्तिनिश्चिताऽस्ति, न हि श्यामत्वासत्वे तत्पुत्रत्वेनावश्यं निवर्तनीयमित्यत्रास्ति प्रमाणमिति चेद् हन्त! त_मुमेवान्यथानुपपत्तिं शरणीचक्राणः पुनस्तामेव लक्षणत्वेन गर्हयसि । अनौपाधिकसम्बन्धस्य व्याप्तित्वं व्याजहाणा योगा अपि तत्पुत्रत्वे शाकाद्याहारपरिणामायुपाधिनिबन्धनत्वात् तादृशव्याप्तेरभावोद्भावनेन विपक्षा सत्त्वासम्भवमावेदयन्तः परमाथतो निश्चितान्यथानुपपत्तिमेव हेतोर्लक्षणं प्रत्यपद्यन्त, न ह्यनौपाधिकसम्बन्धे सति किश्चिदवशिष्यते यदपोहाय शेषलक्षणमाचक्षाणास्ते शोभेरन् ।। . ननु पक्षधर्मत्वाभावे महानसीयधूमोऽपि पर्वतीयानलमनुमापयतु ?, नन्वेवं तद्भावेऽपि तस्य तद्गमकतायां को निरोधकः?। ननु महदेतत्कुतूहलम् : कथं हि नाम पक्षधर्मत्वाङ्गीकारे रसवती धूमो धराधरीयधूमध्वजं गमयितुमधीशीत?, इति चेत् । क्षिप्तस्तर्हि जलचन्द्रस्य नभश्चन्द्रज्ञापकत्वे कुठारः, न ह्यसौ पक्षधर्मत्वाश्रयो जलधर्मत्वात् । न च जलनभश्चन्द्राऽन्तरालवर्तिनस्तावत एकदेशस्य धर्मित्वेन जलचन्द्रस्य तद्धर्मत्वं सूपपादमिति पेशलम् । एवं तर्हि रसवतीपर्वतान्तरालवर्तिवसुन्धराप्रदेशस्य धर्मित्वे महानसीयधृमस्याऽपि तद्धमत्वोपपत्तेः पर्वतीयधनञ्जयज्ञापकत्वमापयेत, पक्षधर्मता खलूभयत्रापि निमित्तं ततो यथाऽसौ खसमीपदेशे