________________
७७
न्यायालङ्कारालङ्कृता ।
तदनुमापने प्रत्यलमित्येतदेव अविनाभावित्वमेकं हेतुलक्षणभावेन समुत्सहिष्णु समवस्थातुम् । पक्षधर्मत्वं सपक्षे सवं विपक्षाद् व्यावृत्तिरिति त्रैरूप्यं हेतोर्लक्षणमिति सौगताः, अवाधितविषयत्वमसत्प्रतिपक्षत्वं तानि त्रीणि चेति पाञ्चरूप्यं हेतोलक्षणमिति यौगाः, तथाहि पर्वतो वह्निमान् धूमादत्र धूमस्य पक्षधर्मत्वं सपक्षे महानसादौ च सत्वं विपक्षहदादितो व्यावृत्तत्वं चाऽस्ति अबाधितविषयत्वं च प्रत्यक्षादिकाऽबाध्यसाध्यकत्वमपि तत्र विद्यत एव । असत्प्रतिपक्षत्वं च साध्यविपरीतार्थोपस्थापकानुमानरहितत्वममुष्य नासम्भवमिति । सोऽयमभ्युपगमो न रमणीयः, एकेनैवाऽविनाभावरूपेण सिद्धत्वात् त्रैलक्षण्यादेरनुपयोगात्, यदि ह्यविनाभावरूपं साध्यसिद्धिराधौरेयमेकं विजृम्भते किमन्यत्रैलक्षण्यादिसत्त्वासत्वाभ्याम् | यदि च न तथा एवमपि किमन्यत्रैलक्षण्यादि सच्चासत्त्वाभ्याम् ? |
तदुक्तम्
"अन्यथाऽनुपपन्नत्वं यत्र तत्र त्रयेण किम् ।
नान्यथानुपपन्नत्वं यत्र तत्र त्रयेण किम् ? ॥ १ ॥ अन्यथानुपपन्नत्वं यत्र किं तत्र पञ्चभिः ।
नान्यथाऽनुपपन्नत्वं यत्र किं तत्र पञ्चभिः ?" ॥२॥ इति न च तथाविधं हेतुत्वाभिमतं किञ्चिदालक्षितं यत्राऽविनाभावलक्षणं न चकास्यात्; न वा कश्चिदसिद्धो वा विरुद्धो वा व्यभिचारी वा कालातीतो वा प्रकरणसमो वा हेत्वाभासो विद्यते यत्र ह्यविनाभावलक्षणक म्रकामिनीपरिरम्भवान्धुर्य स्यादालोकविषयः । एवं च सर्वहेत्वनुगतमहेतुव्यावृत्तमविनाभावलक्षणं हेतोर्लक्षणत्वेन कः सुधीर्नोपासीत । ननु अविनाभावमात्रलक्षणत्वेऽपक्षधर्मत्वस्याऽपि हेतुत्वमासज्येतेति चेदासज्यतां को दोषः ?, इष्टमेव हि तत्र हेतुत्वं प्रकाशेत यदि तत्राऽविनाभावः, अविनाभावाभावे तु त्रिभिः पञ्चभिर्वा पक्षधर्मत्वादिभिर्न कि