________________
प्रमाणपरिभाषा-- नि नोपपधेरन् । केवलान्यायि केवलव्यतिरेकि-अन्वयव्यतिरेकि चेति त्रिविधं साधनं प्रोचिवांसः कणभक्षाक्षचरणीयाश्चान्वयव्यतिरेकिण्येव पाश्चरूप्यमुपयन्ति केवलान्वयिनि तु विपक्षासत्वासम्भवात् केवलव्यतिरेकिणि च सपक्षसत्वाऽसम्भवात् चातूरूप्यमेव यदाह- शङ्करमिश्रः " केवलान्वयिनि, विपक्षासत्त्वस्य केवलव्यतिरेकिणि सपक्षसत्त्वस्य, गमकत्वौपयिकत्वाभावात् " इति, तथा च न तन्मते सर्वहेतुव्यापकमनतिप्रसक्तं किञ्चिल्लक्षणं हेतोः प्रेक्ष्यते अबाधितविषयत्वं तु हेतोर्लक्षणं भवत्येव न, बाधितविषयत्वस्य हेत्वाभासत्वागत्वाभावात् साध्यस्य बाधितत्वे हेतोः किमायातं, येन तद्दोषेणाऽयमपि दोषी स्यात् । न हि नामाऽन्यदोषेणाऽन्यस्य दुष्टता, अतिप्रसङ्गात् । - ननु तर्हि बाधितस्थले हेतुः सम्यगेवावतिष्ठते ?। ननु क एवमाह ?, साध्यदोषेण तु दुष्टत्वं तस्य प्रत्याख्यायते, ननु दुष्टत्वप्रत्याख्याने प्राप्तमेव सम्यक्त्वम् । नः साध्यदोषेण दुष्टत्वाऽभावेऽपि स्खलक्षणाविनाभावाभावमहिम्ना तत्र दुष्टताया अंवस्थानात् । तथा च नाबाधितविषयत्वं हेतोर्लक्षणं सम्भवति, अविनाभाविहेतुस्थले नियमेन बाधितसाध्यानवकाशात् , अविनाभावेनैवाबाधितविषयत्वस्य सङ्ग्रहोपपत्तेश्च तथाहि- वह्निरनुष्णः कृतकत्वाद् घटवदित्यत्र प्रत्यक्षबाधितसाध्यानन्तरप्रयुक्तत्वं हेतोः, सुरा ब्राह्मणेन पेया द्रवत्वान्नीरवदित्यत्र चागमबाधितसाध्यानन्तरप्रयुक्तत्वं हेतोः, न पुनरत्राऽनुष्णत्वेन कृतकत्वस्य पेयत्वेन द्रवत्वस्य वा समस्त्यविनाभावः, एवमविनाभाविहेतुस्थले सत्पतिपक्षत्वस्यापि कोऽवकाशः। न हि सम्भवति परमार्थतोऽवितथे साध्यहेत्वोरविनाभावे सति साध्यविपरीतार्थोपस्थापकानुमानावतारः, अवतारे वा प्रतिहतस्य प्रवक्तुरेव मन्दिमा न पुनर्वस्त्वसत् , तुल्यबलसाध्यतद्विपर्ययसाधकहेतुद्वय