________________
७४
प्रमाणपरिभाषा- .. इति । अर्थापत्तिरप्यत्रैवान्तःपतन्ती नाईति प्रमाणान्तरीभवितुम् । तथाहि- यत्र देवदत्तस्य शतवर्षजीवित्वं ज्योतिःशास्त्रादवगतम् । जीविनो गृहासत्वं च प्रत्यक्षादिनाऽवधारितम् । तत्र जीवित्वविशिष्टं गृहासत्त्वं बहिःसत्त्वमन्तरेणानुपपद्यमानं बहिःसत्त्वं गमयति । नातः पराभिमतार्थापत्तिविषयोऽनुमानेनैव सिद्धेरापत्तिप्रमाणान्तरानुविधायी । जीवित्वस्य बहिःसत्त्वगृहसवान्यथानुपपद्यमानत्वनिर्णये गृहसत्त्वबाधे परिशेषबहिःसस्वस्यानुमानेन परिच्छेदात् । एवं पीनो देवदत्तो दिवा न भुते इत्यादौ पीनत्वस्य भोजनव्याप्यत्वाधिगमाद् भोजनसिद्धौ दिवाभोजनबाधे पारिशेष्याद् रजनीभोजनसिद्धिः। निर्णीतान्यथानुपपत्त्येकलक्षणलिङ्गप्रभवं संवेदनं ह्यनुमानमिष्यते । न चैतद्रूपमेतन्नाईति भवितुम् । नातो विषयान्तराभावेन प्रमाणान्तरकक्षीकारः क्षेमकार इति ॥ ६॥
इदानीं स्वार्थपरार्थभेदेन द्विविधेऽनुमाने स्वार्थमनुमानं प्रदर्शयति
तत् स्वार्थम् ॥ ७॥ तत् साधनात् साध्यज्ञानं स्वस्य साध्यपरिच्छेदलक्षणोऽर्थः प्रयोजनमनेनेति स्वार्थमनुमानम् । ननु केयं वाचोयुक्तिः । न हि सामान्यलक्षणमात्रानुपाती तद्विशेषो विशेषत्वभङ्गप्रसङ्गात् । न खलु घटसामान्यसामग्रीमात्रप्रभवत्वं तद्विशेषस्याऽनुभवपथाध्वनीनम् । एवं च प्रमाणसामान्यतद्विशेषयोरनुमानसामान्यतविशेषयोर्वा लक्षणसाम्यं कथं न्यायसहमिति चेत् । सत्यम् , एष पुनः परमार्थः साधनप्रयोगाद्यनपेक्षभावेन स्वयमेव समवधारिताद् अविनाभावरूपेण साधनात् साध्यज्ञानं स्वार्थानुमानम् , परप्रयुक्तहेतुना समवगतात्साधनात् साध्यज्ञानं परार्थानुमानम् । अनुमानसामान्यलक्षणं तु अवधारणसामान्यविषयात् साध