________________
न्यायालङ्कारालङ्कृता।
नात् साध्यज्ञानम् । एवं च न कश्चिदोषः। ननु सूत्रतस्तावनायमर्थोऽधिगम्यते इति चेत् सत्यम् । किन्तु "हेतोः परार्थम्" इति सूत्रेण साधनप्रयोगसमुत्थसाध्यज्ञानस्य परार्थानुमानतया वक्ष्यमाणत्वेनेह तद्विपरीतं स्वयमेवोपलब्धसाधनात् साध्यज्ञानस्वरूपं स्वार्थानुमानं लभ्यते इति कोऽनुपपत्त्यवकाशः ?। तथाहि-धूम-धूमध्वजयोर्गृहीतव्याप्तिकेन पुंसा किश्चिदरण्यं गतवता कापि धराधरे धूमशिखामविच्छिन्नमूलामालोक्य स्मृत्वा चाऽविनाभावं तयोः स्वयमेवावधार्यते "भवितव्यमिह पर्वते चित्रभानुना" इति, तदेवं लिङ्गदर्शनप्रतिबन्धप्रतिसन्धानसमुत्थः परोक्षार्थनिर्णयो हेत्वाद्यनेपक्षः स्वार्थानुमानमिति ॥ ७ ॥ अथाऽनुमानौपयिकी व्याप्तिमाह
अन्यथानुपपत्तिाप्तिः॥८॥ अन्यथा साध्यं विना अनुपपत्तिरेव न मनागप्युपपत्तिर्यत्र सा तनिष्ठा व्याप्तिः, अन्यथा प्रयत्नानन्तरीयकत्वे साध्ये विपक्षकदेशत्तरनित्यत्वस्याऽपि गमकत्वापत्तेः। वह्नि विना धूमस्यानुपपत्तेर्वह्निमत्येव धूमोपपत्तेवह्निनिरूपिताऽन्यथानुपपत्तिलक्षणा व्याप्तिधूमे वभस्तीति तादृशव्याप्त्याश्रयत्वाद् धृमस्य व्याप्यत्वं तादृशव्याप्तिनिरूपकत्वाद् वढेापकत्वम् । अयमेव च व्याप्यव्यापकभावपदार्थः, एवं च व्याप्यस्य सद्भावे व्यापकेनाऽवश्यं भवितव्यं व्यापकसद्भाव एव च व्याप्येन भवितव्यमित्येष व्याप्य-व्यापकयोर्नियमो निरगालीत् ।
उक्तं च"लिङ्गे लिङ्गी भवत्येव लिङ्गिन्येवेतरत्पुनः । नियमस्य विपर्यासे सम्बन्धो लिङ्गलिङ्गिनोः" ॥१॥ प्रतिबन्धोऽविनाभाव इत्यादि नामान्तरमेवाऽस्या इति ॥८॥ इदानीमुक्तलक्षणव्याप्तिरूपनियमस्य द्विप्रकारी प्रबोधयति