________________
न्यायालङ्कारालङ्कृता ।
षण्ढादारकदोहदस्तु चरमे प्राच्ये समक्षानुमामानार्थान्तरमानमा पतितवत्तत्तर्क आश्रीयताम् ॥ १ ॥ एतस्य च तर्कस्य न केवलानुमानौपयिकसम्बन्ध एव ग्रहीतव्ये सामर्थ्यमपि तु वाच्यवाचकभावेऽपि तस्यैव सकलशब्दार्थगोचरत्वात् प्रयोजकवृद्धोत्तमाकर्ण्य प्रवृत्तवतः प्रयोज्यवृद्धस्य चेष्टां समीक्ष्य तत्कारणज्ञानजनकतां शब्देऽवधारयतोऽन्त्यावयवश्रवणपूर्वावयवस्मरणोपजनितवर्णपदवाक्यविषयसङ्क
७३
लनात्मकप्रत्यभिज्ञानवदावापोद्वापाभ्यां सर्वव्यक्त्युपसंहारेण वाच्यवाचकभावप्रतीतिदर्शनादिति ।
तर्कलक्षणशून्यस्तद्वदाभासमानोऽसत्यामपि व्याप्तौ तत्प्रत्ययस्तर्काभासः यथा स श्यामो मैत्रपुत्रत्वादित्यत्र यावान्मैत्रपुत्रः स श्याम इति ॥ ५ ॥
अथाऽनुमानस्वरूपमालपति
साधनात् साध्यज्ञानमनुमानम् ॥ ६ ॥
वक्ष्यमाणलक्षणाद् दृष्टादुपदिष्टाद्वा साधनाद् वक्ष्यमाणलक्षणस्य साध्यस्य ज्ञानं प्रमाणसामान्य स्वरूपयथार्थज्ञानानुसन्धानाद् यथार्थज्ञानात्मकमनु साधनग्रहण- व्याप्तिस्मरणयोः पश्चान्मीयते परिच्छिद्यतेऽनेनेत्यनुमानमिति ।
यत्त्वाहुर्लिङ्गपरामर्शोऽनुमानमिति, तदसत् ; लिङ्गपरामर्शस्य अनुमानप्रमाणखरूपलाभे करणत्वात्, यथा खल्वनुभवः स्मरणे, अनुभव - स्मृती च प्रत्यभिज्ञाने, अनुभव - स्मरण - प्रत्यभिज्ञानानि च साध्य-साधनविषयाणि तर्फे करणं तथैव लिङ्गज्ञानमपि व्याप्तिस्मर
सहकृतमनुमाने करणमेव न पुनरनुमानम् ; अनुमानं तु परोक्षार्थज्ञानमेव तस्यैव तदव्युत्पत्तिविच्छेद सामर्थ्यात् साधनज्ञानस्य साधनाव्युत्पत्तिविच्छेदमात्रोपक्षीणत्वेन साध्याज्ञाननिवर्तकत्वाऽयोगात् ; उक्तं च, "साधनात् साध्यविज्ञानमनुमानं विदुर्बुधाः"
१०