________________
७२
प्रमाणपरिभाषा -
तस्य, स्वयोग्यताविशेषत्रशाच्च प्रतिनियतार्थव्यवस्थापकत्वं प्रत्यक्षवत् । प्रत्यक्षे हि प्रतिनियतार्थपरिच्छेदो योग्यतात एव न पुनस्तदुत्पत्यादेः, ततस्तत्परिच्छेदकत्वस्य प्रागेव निराकारात् । योग्यताविशेषः पुनः प्रत्यक्षस्येवाऽस्य स्वविषयज्ञानावरणवीर्यान्तरायक्षयोपशमविशेषः प्रतिपत्तव्यः । ननु यथा तर्कस्य स्वविषये सम्बन्धग्रहणनिरपेक्षा प्रवृत्तिस्तथाऽनुमानस्याऽप्यस्तु, सर्वत्र ज्ञाने स्वावरणक्षयोपशमस्य स्वार्थप्रकाशन हेतोरविशेषात्, तथा च व्यर्था सम्बन्धग्रहणार्थं तर्कोपास्तिः । तन्न, यतोऽनुमानस्याऽभ्युपगम्यत एव स्वयोग्यताग्रहणनिरपेक्षमनुमेयार्थप्रकाशनम् । उत्पत्तिः पुनर्लिङ्गलिङ्गिसम्बन्धग्रहणनिरपेक्षा नास्ति, अगृहीततत्सम्बन्धस्य प्रमातुः कचित् कदाचित् तदुत्पत्यप्रतीतेः न च प्रत्यक्षस्याऽपि उत्पत्तिः करणार्थसम्बन्धग्रहणापेक्षा बोभोति स्वयमगृहीततत्सम्बन्धस्याऽपि तदुत्पत्तिप्रतीतेः तथैव तर्कस्यापि स्वार्थसम्बन्धग्रहणानपेक्षस्योत्पत्तिप्रतीतेर्नोत्पत्तौ सम्बन्धग्रहणापेक्षा यौक्तिकीति ।
प्रत्यक्ष पृष्ठभाविनं विकल्पं व्याप्तिग्राहकत्वेनाभ्युपेयांसो बौद्धा निर्विकल्पेन व्याप्तेरग्रहणे विकल्पेन निर्विकल्प गृहीतार्थविषयत्वेन कथं शक्योऽस्याः परिच्छेद इत्यनुयोक्तव्याः । निविकल्पविषयानपेक्षोऽर्थान्तरगोचरो विकल्प इत्येवं पुनराचक्षाणास्ते प्रमाणममुमामनेयुरप्रमाणं वा ? | आये प्रत्यक्षातिरिक्तस्य अव्यभिचारिलिङ्गसमुत्थत्वाभावेनाऽनुमानपदवीं परिजहतस्तस्य प्रमाणान्तरत्वप्रसङ्गः । अप्रामाण्ये तु कस्तद्गृहीतायां व्याप्तौ समाश्वासः । तर्कयामीति विलक्षणानुभव सद्भावाच्चाभ्युपेयस्तथाभूतो ज्ञानविशेषः । यदवोचाम
तर्कार्थग्रहणं विकल्पकधिया पाश्चात्ययाऽध्यक्षतो
मेनानो निगद् विकल्पमतिः सा स्यात् प्रमा वाऽममा ।
-