________________
न्यायालङ्कारालङ्कृता ।
७१
रणं प्रत्यभिज्ञानं भूयो भूयोदर्शनरूपं च प्रत्यक्षं संभूय तादृशमेकं ज्ञानमुपजनयितृणि; यद्धि व्याप्तिग्रहेऽलङ्कर्माणं भवति स एवोहाsपरनामा तर्कः । न चासौ विसंवादित्वादप्रमाणम् । अस्य ह्यविसंवादित्वाभावेऽनुमानस्याऽविसंवादित्वे का प्रत्याशा ? | न खलु तर्कस्याऽनुमाननिबन्धनप्रतिबन्धे संवादाभावेऽनुमानस्याऽसौ संघटेत न चास्य नास्ति निश्चितः संवादो विप्रकटार्थविषयत्वादिति शक्यं वक्तुं तर्कस्य हि संवादसन्देहे कथं निःसन्देहानुमानोत्थानं स्यात् ?; इतिप्रेक्षणीयम् । एवं च प्रत्यक्षस्यापि प्रामाण्यप्रसिद्धिश्रद्धा षण्ठात्तनयदोहद एव । तस्मान्नि:सन्देहमनुमानमभिलाषुकेण साध्यसाधनसम्बन्धग्राहि प्रमाणमसन्दिग्धमेवाऽभ्युपेयं संशयाद्यात्मसमारोपव्यवच्छेदकत्वाच्चाऽस्य प्रामाण्येनुमानस्येव कः सन्दिहीत परिष्कृतमतिः ? ।
यत्तु प्रमाणविषय परिशोधकत्वान्नासौ प्रमाणपदाई इति मतम्, तदप्यज्ञानविजृम्भितम् ; प्रमाणविषयस्याप्रमाणेन परिशोधनविरोधाद् मिथ्याज्ञानवत् प्रमेयार्थवच्च, प्रयोगोऽपि तर्कः प्रमाणं - प्रमाणविषयपरिशोधकत्वादनुमानादिवत् ; यस्तु न प्रमाणं स न प्रमाणविषय परिशोधकः, यथा मिथ्याज्ञानं प्रमेयो वाऽर्थः प्रमाणविषयपरिशोधकचायं तस्मात् प्रमाणम् ।
तथा प्रमाणं तर्कः प्रमाणानुग्राहकत्वाद् यत्प्रमाणानुग्राहकं तत्ममाणं यथा प्रवचनानुग्राहकं प्रत्यक्षमनुमानं वा प्रमाणानुग्राहकवायं तस्मात् प्रमाणम् । न च हेत्वसिद्धिः प्रमाणानुग्रहो हि प्रथमप्रमाणप्रतिपन्नार्थस्य प्रमाणान्तरेण तथैवावसायः प्रतिपत्तिदार्थविधानात् स चात्रास्ति प्रत्यक्षादिप्रमाणेनावगतस्य देशतः साध्यसाधनसम्बन्धस्य दृढतरमनेनाऽवगमात् । ततः साध्यसा - धनप्रतिबन्धावबोधनिबन्धनं तर्कज्ञानं प्रमाणतया प्रतिपत्तव्यं परीक्षादक्षैः । न चोहः सम्बन्धज्ञानजन्मा यतोऽपरापरोहानुसरणादनवस्थाराक्षसी जागृयात् प्रत्यक्षानुपलम्भजन्मत्वात्
-