________________
न्यायालङ्कारालङ्कृता । चित्रज्ञानवदेकस्यास्याऽनुभवसिद्धः । अनुभवो हि वर्तमानकालिकविवर्तमात्रप्रकाशकः, स्मृतिश्चातीतकालिकविवर्त्तद्योतिनी । यत्पुनरतीतवर्तमानकालसङ्कलितैक्यसादृश्यादिविषयावलम्बनत्वेनानुभौतिकं संवेदनं तत्प्रत्यभिज्ञाशब्दव्यपदेश्यं कथङ्कारं पृथक्प्रमाणपदवीं नालङ्कुर्यात् ?। अत एवाऽगृहीतासंसर्गकमनुभवस्मरणरूपं ज्ञानद्वयमेवैतदित्यपि प्रत्युक्तम् , एवं हि विशिष्टज्ञानाय दत्तो जलाञ्जलिः स्यात् । ___अन्ये तु प्रत्यक्षान्वयव्यतिरेकानुविधायित्वात् प्रत्यक्षरूपमेवैतदित्याहुस्तदप्यसाम्प्रतम् । प्रत्यभिज्ञायाः साक्षादक्षान्वयव्यतिरेकानुविधायित्वासिद्धेः, साक्षात्प्रत्यक्षस्मरणान्वयव्यतिरेकानुविधायित्वेनानुभवात् । इतरथा प्रथमव्यक्तिप्रत्यक्षकालेऽपि तदुत्पादापत्तेः । अथ पुनदर्शने पूर्वदर्शनाहितसंस्कारप्रबोधप्रभूतस्मरणसहायमिन्द्रियं प्रत्याभिज्ञां निवर्तयतीति मतिः साप्यसाधुः, प्रत्यक्षस्य स्मृतिनिरपेक्षत्वात् । अपरथा पर्वते धूमध्वजज्ञानस्यापि व्याप्तिस्मरणादिसापेक्षमनसैवोपपत्तिसम्भवेनानुमानमात्रोच्छेदप्रसङ्गात् । न च सहकारिसहस्रसमवधानेऽपि सम्भवत्यविषये प्रवृत्तिः, अविषयश्चेन्द्रियाणां पूर्वोत्तरावस्थाव्यापकमेकत्वादि तत्कथं स्मरणसाहायकेऽपि इन्द्रियाणि तादृशज्ञानोत्पादेऽधीशीरन् ?। अञ्जनादिसाहायकेऽपि नेत्रं व्यवहितमपि रूपमेव परिच्छिनति न तु वाऽविषयं गन्धादीति विषयविशेषद्वारेण प्रमाणभेदव्यवस्थापनादुक्तलक्षणैकत्वादिविषयग्रहौषयिक प्रमाणान्तरमवश्यमेषितव्यं तदेव च प्रत्यभिज्ञानम् । अपिच प्रत्यभिजानामीतिविलक्षणप्रत्ययोऽपि तस्य प्रमाणान्तरत्वसाधको वरिवर्ति।
यदभ्यधामयस्तु स्वीकुरुते सुपेशलमतिर्न प्रत्यभिज्ञा प्रमामेकत्वादिधियो ध्रुवं करणतां कस्याप्यसौ व्याहरेत् ।