________________
६८
प्रमाणपरिभाषा
महिष इत्यभिहिते तद्विपिनगोष्ठं प्राप्त आप्तातिदेशवाक्यस्मरणसहकारेण यमेव गोभ्यो विसदृशं पशुमालोकयति तमेव महिषशब्दवाच्यतया प्रतिपद्यते इति न कश्चित् प्रतिविशेष उभयत्रापि सङ्केतप्रतिपत्तौ ।
यदा वा यादृग् गौस्तादृग् गवयः, इति वाक्याहितसंस्कारः प्रमाता तुरङ्गं गोविलक्षणमीक्षमाणो गवयसंज्ञासम्बन्धप्रतिषेधं विधत्ते नायं गवयपदवाच्यः पिण्ड इति तदा गवयसंज्ञासम्बन्ध प्रतिषेधफलं किमेतत्प्रमाणं स्यात् ? । तस्मादेवंविधानां ज्ञानानां सङ्कलनात्मकत्वेन प्रत्यभिज्ञानतैवोपपत्तिमती । इतरथा तु प्रमाणेयत्ता विलीयेतेत्युक्तमेव । यदैव नाम यादृग् गौस्ताहर गवयः, इति तेनोपाश्रावि तदैव सामान्यतश्चेतसि परिस्फुरति पिण्डे सम्बन्धप्रतीतिरभूद् । यथा पृथुबुनोदराकारं वृत्तकण्ठं भावं कुम्भं विभावयेरित्याकर्णनात् कुम्भे, ततो वनविहारिणस्तस्य गवयसाक्षात्कारे प्राक्तनसामान्याकारसम्बन्धस्मरणे च स एव गवयशब्दवाच्य इत्येवंसङ्कलनज्ञानरूपं प्रत्यभिज्ञानं समुन्मजति । एवं गोविसदृशो महिषः, इत्याद्यपि तथारूपत्वात् प्रत्यभिज्ञानमेवेति । __ अनेन सदृशः स गौरित्यनधिगतं गवि सादृश्यं परिच्छिन्ददुपमानं प्रमाणमातस्थानो मीमांसकोऽपि “अनेन महिषेण विसदृशः स गौरित्यनधिगतमहिषवैसदृश्यव्यवसायकस्य प्रमाणान्तरताप्रसङ्गेन शिक्षणीयः । सादृश्याभावो वैसदृश्यमित्यभावप्रमाणपरिच्छेद्यमेवेदमिति चेत् ? । हन्त ! तर्हि वैसदृश्याभावः सादृश्यमितीदमपि तत्परिच्छेद्यमेव किं न भवेत् । न च वैसहश्याभावस्य सादृश्यरूपत्वे स गौः सदृशो गवयेनेति विधिमुखेन नोल्लिखेदिति वाच्यम् , अन्यत्राप्यविशेषात् ।।
शाक्यास्त्वाहुः तत्तेदंतारूपस्पष्टाकारभेदाद् नैकं नाम प्रत्यभिज्ञानरूपं प्रमाणं समस्तीति । तन्न; आकारभेदेऽपि