________________
न्यायालङ्कारालङ्कृता ।
ur
"रोमशो दन्तुरः श्यामो वामनः पृथुलोचनः । यस्तत्र चिपिटघ्राणस्तं चैत्रमवधारयः ॥ १ ॥ पयोम्बुभेदी हंसः स्यात् षट्पादैर्धमरः स्मृतः । सप्तपर्णस्तु विद्वद्भिर्विज्ञेयो विषमच्छदः ॥ २ ॥ पञ्चवर्ण भवेद्रत्नं मेचकाख्यं, पृथुस्तनी । युवतिश्चैकशृङ्गोऽपि गण्डकः परिकीर्तितः" ॥ ३॥ इत्येवमादिशब्दश्रवणात् तथाभूतानेव चैत्र-हंसादीनालोक्य तथावचनं सत्यापयति यदा तदा तदपि सङ्कलनज्ञानं प्रत्येयं दर्शनस्मरणोत्पन्नत्वाऽविशेषात् । यथा चौदीच्येन क्रमेलकं गर्हयताऽभ्यधायि "धिक् करभमतिदीर्घवक्त्रग्रीवं प्रलम्बोष्ठं कठोरतीक्ष्णकण्टकाशिनं कुत्सितावयवसन्निवेशमपशदं पशूनाम्" इति । तदुपश्रुत्य दाक्षिणात्य उत्तरापथं गतस्तादृशं वस्तूपलभ्य नूनमयमर्थः करमपदस्येति प्रत्येति, तदप्यनुभवस्मरणसमुद्भवात्सङ्कलनात्मकं प्रत्यभिज्ञानं ज्ञेयमिति । सादृश्यविषयमुपमानप्रमाणमभ्युपजग्मुषां मतेन वैलक्षण्यादिविषयप्रमाणान्तरस्याप्यनुषज्येताऽभ्युपगम इति विलीयेत प्रमाणनियमव्यवस्था ।
अथ गवये गोसदृशो गवय इति विज्ञानं संज्ञासंज्ञिसम्बन्धप्रतिपत्तिरूपे फले प्रमाणान्तराप्रसाध्ये साधकतमस्वादुपमानतां प्रतिपद्यते इति चेत् । एवं तर्हि महिषे गोविसदृशमहिषोपलक्षणमपि तत्रैव तथाविधफलसाधकतमत्वात् प्रमाणान्तरं न स्यादिति का प्रत्याशा ? । न चोपमानस्य सादृश्यविषयत्वेन खीकाराद् तत्रैतस्य सम्भवत्यन्तःपातः । न चाऽसिद्धं संज्ञासंज्ञिसम्बन्धप्रतिपत्तिसाधकतमत्वं तत्र, यतः समहिषमाहेयीमण्डले कापि विपिनप्रदेशेऽनच्छायां छावायां रोमन्थायमाने नालिकेरद्वीपवासी कश्चन केनचन प्रहितस्तद्विपिनप्रतिष्ठगोष्ठात् समानय महिषमिति; स च तद्वेदिनममुमेवाऽन्वयुङ्क्त कीदृशो महिष इति तेन च गोविसदृशो