________________
६६
प्रमाणपरिभाषा
ज्मन् ! १॥ तत्तु प्रागेव प्रतिविहितम् ; यथैव हि घटाधलब्धजन्माऽपि प्रदीपस्तान् प्रकाशयति तथैव आवरणक्षयोपशमापेक्षेन्द्रियमनो. बललब्धजन्मसंवेदनं विषयमवभासयेदिति किमुन्न्यायम् ।
यदभाषेमहिस्मृतिप्रामाण्याऽपाकरणनिपुणः कः खलु भुवां
विसंवादातीता न भवति किमध्यक्षवदसौ ?। गृहीतग्राहित्वं न हि किमनुमानार्थविषये
समक्षे संबन्धाऽवगमविषयायामनुमितौ ? ॥१॥ . अप्रामाण्यं च स्मृतेरभिमेनानां सकलानुमानसमुच्छेदलक्षणोऽभिशापो दुर्निवारः, तया व्याप्तेरविषयीकारे तदुत्थानाऽसम्भवात् । लिङ्गग्रहणसम्बन्धस्मरणपूर्वकमनुमानमिति हि सर्वपार्षदमित्यभ्युपेयमनुमानप्रामाण्यस्यान्यथानुपपत्तेः स्मरणप्रामाण्यमिति । स्मरणलक्षणशून्यं स्मरणवदाभासमानं स्मरणाभासं यथाऽननुभूते मुनिमण्डले तन्मुनिमण्डलमिति ॥ ३ ॥ अथ प्रत्यभिज्ञानं प्रकाशयति
अनुभव-स्मरणापेक्षमेकत्वाद्युल्लेखि प्रत्यभिज्ञानम् ॥ ४॥ अनुभवः प्रमाणार्पिता प्रतीतिः, स्मरणं चोक्तलक्षणं तदपेक्षमनुभवस्मरणाधीनात्मकमित्यर्थः, इति कारणनिर्देशः, एकत्वाद्युल्लेखीत्याकारोपदर्शनम् , यथा तदेवेदमिति । आदिपदाद तत्सदृशं तद्विलक्षणं तत्प्रतियोगीत्येवंसादृश्यादिपरिग्रहः । अयमथः, इदन्तोल्लेखी अनुभवः, तत्तोल्लेखि स्मरणम् , तदुभयसमुत्थं पूर्वोत्तरैक्यसादृश्यादिगोचरं यत्सङ्कलनात्मकं ज्ञानं तत् प्रत्यभिज्ञानम् , यथा स एवाऽयं देवदत्त इत्येकत्वोल्लेखि; गोविलक्षणो महिष इति वैलक्षण्योल्लेखिः इदं तस्माद् दूरमिदं तस्मात् समीपमिदममुष्मादल्पं महदू वेत्यादि प्रतियोगिलोल्लेखि ।