________________
न्यायालङ्कारोलकृता।
तेऽर्थे “किमयं दाक्षिणात्य आहोस्विदौदीच्य इत्येवं सन्देहो. दये सति अनन्तरम् "दाक्षिणात्येन अनेन भवितव्यं न ह्यमुकेन चिह्ननायमौदीच्यः सम्भवति" इत्येवंरूपेण विशेषधर्मस्य संशयनिराकरणप्रवणा परीक्षा पर्यालोचनरूपा ईहापदेन भण्यते ।नचायमीहाप्रत्ययः संशयरूपः संशयितव्यः, हेतु-हेतुमद्भावेन तयोः पार्थक्यस्य स्पष्टमनुभवात् । आहुश्च श्रीदेवमूरिचरणाः"संशयपूर्वकत्वाद् ईहायाः संशयाद् भेदः" इति । न चायमनिर्णयरूपत्वादप्रमाणं, स्वविषये निर्णयरूपत्वाद् निर्णयान्तरासादृश्ये तु निर्णयान्तराणामप्यनिर्णयत्वप्रसङ्ग इति ॥ १९ ॥ तद्गृहीतविशेषावधारणमवायः॥२०॥
ईहाप्रत्ययेन क्रोडीकृतस्य दाक्षिणात्य एवायमित्येवमवधारणं निर्णयरूपोऽवायपदार्थः ॥ २० ॥
स्मरणानुगुणं धारणा ॥२१॥ उक्तलक्षणमवधारणं यदा कालान्तरभाविस्मरणोत्पादानुकूलं भवति तदा धारणापदेन व्यवहियते दृढतमावस्थापनो ह्यवायः स्वोपढौकितात्मशक्तिविशेषरूपसंस्कारद्वारा कालान्तरे स्मरणमर्जयितुं पर्याप्नोति । यद्यप्येकजीवद्रव्यतादात्म्येन द्रव्यार्थादेशाद् दर्शनावग्रहादीनामैक्यं तथापि पर्यायार्थादेशाद् भेदोऽपि निभालनीयः, क्रमेणाप्युत्पदिष्णूनाममीषां कचित्क्रमानुपलक्षणमाशूत्पादादुत्पलपत्रशतव्यतिभेदक्रमवदिति ॥२१॥ इत्याचार्यश्रीविजयधर्मसूरीश्वरविहितायाः प्रमाणपरिभाषाया वृत्तिभूते मुनिश्रीन्यायविजयप्रणीते न्यायालङ्कारे प्रत्यक्षस्वरूपवर्णनो
द्वितीयः परिच्छेदः ॥ २ ॥