________________
अर्हम् | अथ तृतीयः परिच्छेदः ।
*
उक्तं प्रत्यक्षमिदानीं परोक्षप्रमाणाऽवसर इति तल्लक्षयति-विपरीतं परोक्षम् ॥ १ ॥
साक्षात्करणत्वलक्षणप्रत्यक्षाद्विपरीतस्वरूपमसाक्षात्करणत्वं परोक्षप्रमाणस्य लक्षणम् । अत्राऽपि सामान्यलक्षणानुवादेन विशेषलक्षणविधानात् प्रमाणसामान्यलक्षणं यथार्थज्ञानमनूद्य असाक्षात्करणस्वरूपं विशेषलक्षणं प्रसिद्धस्य परोक्षस्य विधीयते प्रसिद्धस्याऽनुवादेन ह्यप्रसिद्धस्य विधानं लक्षणार्थ:, एवं च परोक्षं धर्मि असाक्षात्करणयथार्थज्ञानमिति साध्यो धर्मः परोक्षत्वादिति हेतुर्यन्नैवं तन्नैवं यथा गत्यक्षमिति व्यतिरेकित्वम् । परोक्षपदस्य च व्युत्पत्तिं प्रागेव प्रादशमेति ॥ १ ॥
अथ परोक्षप्रकारान् प्रकटयति
स्मरण-प्रत्यभिज्ञान-तर्का -ऽनुमानाssगमैः पञ्चधा ॥ २॥ परोक्षमित्यनुवर्त्तते परोक्षप्रमाणं स्मरणादिप्रकारपञ्चकेन
पञ्चधा ।। २ ।।
तत्र स्मरणं स्मारयति —
अनुभवमात्रजन्यं तत्तोल्लेखि स्मरणम् ॥३॥
अनुभवमात्रजन्यमिति कारणोपदेशः, तत्तोल्लेखीत्याकारनिवेदनं यथा तत्तीर्थकरविम्बम् । तत्तोल्लेखित्वं चास्य यो