________________
६२
प्रमाणपरिभाषा--- न्तौ, तथा संहरणतो गृहादिषु पिण्डीभवनाद् धृमवदेतौ क्रियाभाजौ, तथा पर्वतनितम्बादिषु प्रतिस्खलनाद् गतिक्रियाश्रयावेतौ । अपि च बभस्ति श्रोत्रघ्राणयोः प्राप्यकारित्वे विषयकृतानुग्रहोपघातलक्षणं मुर्दाभिषिक्तं साधनम् । न चायमसिद्धं भेर्यादिमहाशब्दप्रवेशे बाधिर्यरूपोपघातस्य कोमलशब्दश्रवणे चाऽनुग्रहस्य दर्शनात् । घ्राणस्यापि अशुच्यादिगन्धप्रवेशे पूतिरोगाऽर्शोव्याधिलक्षणोपघातस्य कर्पूरादिगन्धप्रवेशे चानुग्रहस्याऽनुभवात् । शक्नुवन्ति च सम्बद्धा एव श्रोत्रघ्राणाभ्यां शब्दगन्धाः स्वकार्यभूतमुपघातमनुग्रहं चोत्पादयितुम् , इतरथा सर्वस्याऽपि तजननप्रसङ्गादिति ॥ १७ ॥
अथ सांव्यवहारिकप्रत्यक्षप्रकारभूतमवग्रहादिचतुष्टयं सूत्रचतुष्टयेन स्पष्टयितुमुपक्रमतेइन्द्रिया-ऽर्थयोगे सत्तामात्रालोचनानन्तरमवान्तरजातिविशिष्टार्थग्रहणमवग्रहः॥१८॥ - इन्द्रियं चक्षुरादि, बाह्यविषयोऽर्थस्तयोर्योगोऽभिसम्बन्धोऽनतिदूरासन्नव्यवहितदेशाद्यवस्थानलक्षणा योग्यतेत्यर्थः, तस्मिन् सति सत्तामात्रग्राहिणोऽनुल्लिखितविशेषस्य आलोचनस्य दर्शनापरपर्यायस्य उदयानन्तरं सत्तावान्तराभिर्मनुष्यत्वादिजातिभिर्विशिष्टस्पार्थस्य ग्रहणं ज्ञानं तदवग्रह इति गीयते । एतेन सत्तामात्रालोचनस्वरूपं दर्शनं परिणामिकारणमवग्रह इति दर्शितम् ; न ह्यसत एव सर्वथा कस्याऽपि समुत्पत्तिः सतो वा सर्वथा विनाशः, इति दर्शनमेव तथाविधमुत्तरपरिणामं प्रतिपद्यते इति ॥ १८ ॥ तद्गृहीतार्थविशेषपरीक्षा ईहा ॥१९॥
तेनाऽवग्रहेण मनुष्यत्वादिसत्वावान्तरसामान्यरूपेण गृही