________________
न्यायालङ्काराल कुता।
धरयोर्युगपद्ग्रह इत्यपि तुच्छम् , उद्भूतरूपवत्तेजःसंसर्गेणाऽनुद्भूतरूपवत्तेजस आरम्भानभ्युपगमाद् बाह्यचक्षुषा पृष्ठावस्थितवस्तुग्रहप्रसङ्गाच्च । चक्षुःप्राप्यकारित्ववादे च काचाभ्रपटलस्फटिकावन्तरितवस्तुग्रहानुपपत्तिदोषो दुरुद्धरः । प्र. सादस्वभाववतां स्फटिकादीनां न नायनरश्मिगतिप्रतिबन्धकत्वमिति तु तुच्छं नायनरश्मिपदार्थस्यैवाऽसिद्धेः, तमन्तरेणापि समुपपत्तिमताऽप्राप्यकारित्वेन वस्तुपरिच्छेदसिद्धेः, तदन्यथानुपपत्तेरपि तत्र प्रमाणत्वेनाऽशक्याभिधानत्वात् । __ अभ्यधिष्महि च"प्राप्याथै नयनं प्रतीतिजननं स्वीचक्रुषां का मतिः नो काचान्तरितार्थबुद्धिरुदयेत् प्राप्यग्रहे चक्षुषा ? । कुड्याद्यन्तरितार्थबुद्धिरुदयेदप्राप्यबोधेऽपि चेद् नैवं नेशयोग्यता ह्यपरथा स्याद् गन्धधीश्चक्षुषा ॥१॥ इति
स्पर्शन-रसन-घ्राण-श्रोत्रेन्द्रियाणि तु प्राप्यकारीण्येव, उक्तश्वात्राऽनुभवः । ननु घ्राणं श्रोत्रं च प्राप्यकारि न संभवति 'विवक्षितदेशाद् हि दूरदेशमपि स्वविषयमेते गृहीतः, आनुभौतिकश्चायमर्थः । न हि शब्दः कश्चित् श्रोत्रेन्द्रिये प्रविशन् समुपलभ्यते; नाऽपि श्रोत्रेन्द्रियं दूरप्रदेशे गच्छद् भवितुमर्हति; न चाऽऽभ्यां प्रकारान्तरेण संघटते विषयाभिसम्बन्धः, भवति च प्रत्ययः “दूर एष कस्याऽपि श्रूयते शब्दः, इति । एवं कर्पूरकुङ्कमकुसुमादीनां दूरस्थानामपि गन्धो निर्विवादमनुभूतिगोचर इति प्राप्यकारित्वं कुतस्तयोस्सूपपादम् । उच्यते, शब्दगन्धौ स्वयमन्यत आगत्य श्रोत्रघ्राणे प्राप्नुतः, न त्वहतः श्रोत्रघ्राणे स्वविषयदेशे गन्तुम् , आत्मनोऽबाह्यकरणत्वात् स्पर्शनवत् । न च कश्चिद् बाधः शब्द-गन्धपुद्गलानां सक्रियत्वेन श्रोत्रघ्राणे प्रति समागमनोपपत्तेः, प्रामाणिकश्चाऽयमर्थः, यथाहि पवनपटलेनोह्यमानत्वाद् धूमो गतिक्रियावान् एवं शब्द-गन्धावपि तेनोह्यमानत्वात् तद्व