________________
प्रमाणपरिभाषा
यत्तु प्रत्यक्षविशेषे इन्द्रियविषयसन्निकर्षों हेतुरनुगत एवेति पराभिप्रायः, नाऽसौ समीचीनः परमाण्वाकाशादौ व्यभिचारात् । न च महत्त्वसमानाधिकरणोऽद्भूतरूपवत्त्वस्याऽपि सहकारित्वाद् न दोष इति सम्यग्मतम् , समाकलितसकलनेत्रगोलकस्य दूराऽऽसन्नतिमिररोगावयविन उपलम्भप्रसङ्गात् । अत्यन्तासत्यभावस्याऽपि सहकारित्वस्वीकारे चाऽधिष्ठानसंयुक्ताञ्जनशलाकाया अप्यप्रत्यक्षत्वप्रसङ्गात् । अग्रावच्छेदेन चक्षुःसंयोगस्य हेतुत्वेऽपि उदीची प्रति व्यापारितचक्षुषः काश्चनाऽचलोपलम्भप्रसङ्गात् । दूरत्वेन नेत्रगतिप्रतिबन्धे च शशधरस्याऽप्यनुपलम्भप्रसङ्गात् । तदभीषुभिरिव तिग्मकराभीशुभिरपि तदभिवृद्धेश्वाऽविशेषात् । तिग्मत्वेन तिग्मकरकराणां तत्प्रतिघातकत्वे च तदालोकपरिकलितपदार्थमात्राभानप्रसङ्गादिति । इन्द्रियसम्बन्धत्वेन प्रत्यक्षहेतुत्वेऽपि सामीप्यविशेषेण संयोगस्याऽन्यथासिद्धिरित्यपि श्रेयान् पन्थाः। प्राप्यकारित्वे च चक्षुषः शाखाचन्द्रमसोयुगपद्ग्रहानुपपत्तिदोषसमवतारो दुर्निवारः, युगपसंयोगाऽनुपपत्तेः।
न च शतपत्रसूचीवधव्यतिकरण तत्र यौगपद्याभिमान एव क्रमेणैव वेगातिशयादुभयसंयोगेनोभयसाक्षात्कारोत्पादनादिति युक्तं वक्तुं चन्द्रज्ञानानुव्यवसायसमये शाखाज्ञानस्य नष्टत्वेन " शाखाचन्द्रौ साक्षात्करोमि" इत्यनुव्यवसायानुपपत्तेः । न च क्रमिकतदुभयानुभवसमुत्पादितसंस्काराभ्यां जनितायां समूहालम्बनस्मृतावेवानुभवत्वाऽऽरोपात् तथाऽनुव्यवसाय इति; साम्प्रतं तादृगारोपादिपरिकल्पनायां प्रमाणाभावाद् महागौरवाच्च । न च तिर्यग्भागावस्थितयोः शाखाचन्द्रमसोर्युगपसंयोग इति युक्तम् , सन्निहितव्यवहितयोर्युगपत्संयोगेऽतिप्रसङ्गात् , नयनानिस्सरता नायनेन तेजसाऽर्थसंसर्गसमकालमेव बाह्यालोकसहकारेणान्यनेत्रारम्भात् शाखाशश