________________
न्यायालङ्कारालकृता ।
ग्रहोऽपि यदि च चक्षुः स्वत एवानुग्राहकोपघालकवस्तुनी संमृज्य लभेतानुग्रहोपघातौ स्यात्तर्हि सूरकरावलोकनादिव करवालाधवलोकनादप्यभिघात इति । ___यत्तु नयनान्नायना रश्मयो निर्गत्य प्राप्य च वस्तु रविरश्मय इव प्रकाशमादधति सूक्ष्मत्वेन तैजसत्वेन च तेषां वह्नयादिभिर्दाहादयो न भवन्तीति मतम् । तदपमतम् ; चक्षुपस्तैजसत्वस्यैवाऽसिद्धेः चक्षुस्तैजसं रूपादिमध्ये रूपस्यैवाऽभिव्यञ्जकत्वात् प्रदीपवदित्यनुमानं तु चक्षुर्विषयसंयोगेन व्यभिचारान्न तैजसत्वसाधनधीरम् । न च तत्र द्रव्यत्वे सतीति विशेषणेन व्यभिचारपरिहारः, अञ्जनविशेषेण तस्य जागरूकत्वात् । एतेन रूपसाक्षात्काराऽसाधारणं कारणं तैजसं रसाद्यव्यञ्जकत्वे सति स्फटिकावन्तरितप्रकाशकत्वात् प्रदीपवदित्यप्यपास्तम् । अञ्जनादिभिन्नत्वे सतीति विशेषणदाने चाऽप्रयोजकत्वात् चक्षुःप्रदीपयोरेकया जात्या व्यञ्जकत्वासिद्धेः । एतेन स्वप्नादिकमिवाञ्जनादिकं सहकृत्य मनसैव साक्षात्कृते चाक्षुषत्वभ्रम इत्युक्तावपि न क्षतिः, वस्तुत एवमञ्जनादेः पृथक्षमाणत्वासक्तिः, मनो यदसाधारणं सहकार्यासाद्य बहिर्गोचरां प्रमामाविर्भावयति तस्य प्रमाणान्तरत्वनियमात् । न च पटपटलाच्छन्नचक्षुषामञ्जनादिजनितो निध्यादिसाक्षात्कारो न प्रमेत्युक्तिायसहा, यथार्थप्रवृत्तिजनकत्वेन तत्प्रमात्वस्य व्यवस्थितत्वात् । न च कारणबाधादप्रयात्वं तस्यैवाऽनुपपत्तेः । न च स्वमादिवदञ्जनादेर्निध्यादिभूचकत्वमेव, व्याप्तिग्रहादिकं विनाऽनुमितिरूपतत्सूचनाऽसम्भवात् , स्वमनादिस्थले तु व्याप्तिग्राहकस्वमशास्त्राद्यनुसरणनियमादिति । स्यादेतत् , चक्षुषोऽप्राप्यकारित्वेऽसन्निहितत्वाऽविशेषात् कुड्यादिव्यवहितानामपि ग्रहणप्रसङ्गः। तन्न, अतिसन्निहितस्य गोलकादेरिव भित्त्यादिव्यवहितस्याऽपि योग्यताविरहादेवाऽग्रहात् ।