SearchBrowseAboutContactDonate
Page Preview
Page 72
Loading...
Download File
Download File
Page Text
________________ ५८ प्रमाणपरिभाषाबुद्धस्य कस्यचित् प्रत्यक्षप्रमागोचरः, सोऽपि तीवमानसाध्यवसायकृतो वेदितव्यः, न पुनस्तदानीं वास्तवयोषाभिष्वङ्गः सम्भावनीयः । अन्यथा प्रबोधन एव प्रियतमां सन्निहितामालोकेत । भवति हि जाग्रतोऽपि तीव्रमोहस्य कामिनी स्मरतः स्मरणातिरेके प्रत्यक्षामिव तां निभालयतो बुद्ध्या परिष्वजतः परिभुक्तामिव मन्वानस्य तीव्राध्यवसाने व्यञ्जनविसर्ग इति न प्राप्यकारि मनः । सत्यासत्यत्वमपि स्वमस्य न प्रकृतसिद्धान्तबाधधीरं चेतोवृत्तिविशेषस्य शुभाशुभफलनिमित्तत्वाऽविरोधात् । अमुत्र मे मनो गतमिति तु रूढिमात्रं चक्षुषः चन्द्रं गतमिति रूढिवत् । न च चन्द्रप्राप्तिश्चक्षुषः पारमार्थिकी वह्नयादिदर्शनेन तत्कृतदाहादिप्रसङ्गात् । न च सर्वाऽपि रूढिः सत्या भवति । "वटे बटे वैश्रवणश्चत्वरे चत्वरे शिवः । पर्वते पर्वते रामः सर्वगो मधुसूदनः" ॥१॥ इत्यादिकाया असत्याया अपि दर्शनादिति ॥ १६ ॥ ननु मन एवाऽप्राप्यकारि न किञ्चिदिन्द्रियम् ? अत्राह, ___ चक्षुश्च ॥ १७॥ चकारः समुच्चयाऽर्थः प्रमाणमत्र चक्षुरपाप्यकारि अधिष्ठानाऽसम्बद्धार्थग्राहकेन्द्रियत्वाद् मनोवदित्यनुमानम् । अधि. ष्ठानेत्यादिविशेषणेन स्पर्शनादौ इन्द्रियपदेन प्रदीपप्रभायां व्यभिचारव्युदासः । नचायमप्रयोजको हेतुः, सम्बद्धार्थग्राहकत्वे तस्य करवाल-जलालोकनादिनोपघातानुग्रहप्रसङ्गात् । ननु मुहुर्मुहुः सूरकर-जलावलोकनाभ्यां दाह-शैत्यलक्षणोपघातानुग्रहोपलम्भादसिद्ध एव तस्यानुग्रहोपघाताभाव इति चेद् । म. न्दम्,अवलोकनानन्तरं चक्षुर्देशं प्राप्तेन मूर्तेन रविकरादिनोपघातसम्भवात्, जलावलोकनादौ चोपघाताभावेनानुग्रहाऽभिमानात् , स्वतस्तदेशं प्राप्तेन च चन्द्रमरीचिनीलादिना भवत्येवाऽनु
SR No.022390
Book TitlePraman Paribhasha
Original Sutra AuthorN/A
AuthorDharmsuri, Nyayvijay
PublisherHarashchand Bhurabhai
Publication Year1914
Total Pages236
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy