________________
प्रमाणपरिभाषा
यतो मनस्त्वपरिणतानिष्टपुद्गलनिचयरूपं द्रव्यमनोऽनिष्टचिन्ताप्रवर्त्तनेन जीवस्य देहदौर्बल्यापच्या हृन्निरुद्धवायुवदुपघातं जनयति, तदेव च शुभपुद्गलपिण्डरूपं तस्याऽनुकूलचिन्ताप्रवतनेन हर्षाद्यभिनिवृत्या भेषजवदनुग्रहं करोतीति जीवस्यैवैतावनुग्रहोपघातौ द्रव्यमनः करोति, न तु मन्यमानं सुमेर्वादि ज्ञयं मनसः किमप्युपकल्पयति । तस्माद् द्रव्यमनसः सकाशादास्मन एवानुग्रहोपघातसद्भावात् , मनसस्तु ज्ञेयात् तद्गन्धस्याप्यभावाद् हेतोरसिद्धिबन्धकोसम्बन्धाभिधानमवन्धुरमेव ; सिअश्वायमर्थः, यथा ह्याहार इष्टानिष्टपुद्गलमयत्वात् तदनुभावात् प्राणिशरीराणां पुष्टि-हानी उत्पादयति तथा द्रव्यमनोऽपि तन्मयत्वाद् यदि तेषां ते निवर्तयति तदा किं झूयते ?, येन पुद्गलमयत्वे समानेऽपि भवतोऽत्रैवाऽक्षमा । तथाचोक्तं " चिन्तया वत्स ! ते जातं शरीरकमिदं कृशम्" इति । न च चिन्तैव का
र्याापघातादिजनिका, तस्या अपि द्रव्यमनःप्रभवत्वात् , अन्यथा हि चिन्ताया ज्ञानरूपत्वाद् ज्ञानस्य चाऽमूर्त्तत्वाद् नभस इवोपघातादिहेतुत्वं कुतः सम्भवति ? । ननु द्रव्यमनस इष्टानिष्टपुद्गलमयत्वे श्रद्धामात्रेण समाश्वासः, न्यायोऽपि वा कश्चिञ्चकास्ति?, न्यायोऽपि चकास्ति । तथाहि- यदन्तरेण यदनुपपन्नं तदर्शनात्तदस्तीति प्रत्येयं, यथा स्फोटदर्शनाद् दहनस्य दाहिका शक्तिः, नोपपद्यते चेष्टानिष्टपुद्गलसङ्घातात्मकद्रव्यमनोव्यतिरकेण जन्तूनामिष्टाऽनिष्टचिन्तने समुपलब्धौ मुखप्रसाददेहदौर्बल्याद्यनुग्रहोपघातो ततस्तदन्यथानुपपत्तिरेव यथोक्तरूपं द्रव्यमनः प्रसाधयति । न च चिन्तनीयवस्तुकृतत्वमनयोः शक्यं शङ्कितुम् , जल-ज्वलनौदनादिचिन्तने क्लेद-दाह-बुभुक्षोपशमादिप्रसक्तः, खेदादेस्तदुद्भूतिरपि नाऽऽरेकणीया तस्य मनोद्रव्यरूपत्वे सिद्धसाधनात् , चिन्तादिज्ञानरूपत्वे विहितोत्तरत्वात् । न च निर्हेतुकावमू , सर्वदा भवनाऽभवनप्रसङ्गात् , तदुक्तं ताथागतपथधुरा