________________
न्यायालङ्कारालङ्कृता । तस्यः द्वितीये तत्करणे तदभिन्नस्याऽऽत्मनोऽपि करणप्रसङ्गादनित्यत्वानुषङ्गः। अथ माभूदेष दोषः “ न क्रियते " इत्यभ्युपगमः, हन्त ! तर्हि नाऽसौ तस्य सहकारी विशेषाकरणात् , विशेषमकुर्वतोऽपि सहकारित्वस्वीकारे सर्वस्याऽपि तत्प्रसङ्गः, विशेषाकरणाऽविशेषात् , इति व्यर्था शरीरमात्रापेक्षा । तस्माच्छरीरमात्रवृत्तिरेवात्मा न सर्वगतः । अत्रत्यं किश्चिदधिकं तत्त्वमग्रे वक्ष्यामः । अतस्तदव्यतिरिक्तस्य भावमनसोऽपि न शरीराद् बहिनिःसरणमुपपत्तिमदिति ।
अथ द्रव्यमनो विषयदेशमभियाति तदप्यसुन्दरम् , तस्याऽचेतनत्वेन विज्ञातृत्वाऽभावाद् उपलशकलवद् । असति च विज्ञातृत्वे गत्वाऽपि कश्चिद्विषयदेशं किं तद् वराकं करोतु ?, तत्र गतादपि तस्मादर्थावगमाभावात् ; स्यादेतत् मा ज्ञासीद् द्रव्यं मनः, तेन पुनः करणभूतेन प्रदीपादिनेव वस्तुप्रकाशने को वाधः?। गतवता हि विषयदेशं करणभूतेन द्रव्यमनसा जीवः कर्ता जानीयात् तद् वस्तु, तथाच प्रयोगो बहिर्निर्गतेन द्रव्यमनसा प्राप्य विषयमवगच्छति जीवस्तस्य करणत्वात् प्रदीप-मणि-चन्द्रसूर्यादिप्रभयेवेति । अत्रोच्यते, मन्यामहे खलु द्रव्यमनः करणं, किन्तु करणं द्विविधं भवति शरीरगतमन्तःकरणं तद्वहिर्भूतं बाह्य करणं च, तत्रेदं द्रव्यमनोऽन्तःकरणमेवात्मनः, तथाच देहस्थितेन तेन जीवो जानीते वस्तुरूपं स्पर्शनेन्द्रियेणेव कमलनालादिस्पर्शम् । प्रयोगश्च यदन्तःकरणं तेन शरीरस्थेनैव जीवो गृह्णाति विषयं यथा स्पर्शनेन, अन्तःकरणं च द्रव्यमनः, इति सिद्धं विषयदेशमप्राप्य गृह्णाति मन इति ।।
स्यादेतत् । मृतनष्टादि वस्तु परिभावयतः शोकायतिशयेन दौर्बल्यादिभिरुपघातोऽभीष्टसङ्गमविभवलाभादि परिचिन्तयतो हर्षादिभिरनुग्रहश्च मनसोऽनुभवसिद्धः, नाऽतस्तदभावनिबन्धनमप्राप्यकारित्वं तत्र न्याय्याऽभ्युपगममिति । एतदप्यपेशलम् ,