________________
५४
प्रमाणपरिभाषान्तने च दाहायुपघातो दर्शनविषयः । न चैवं तस्मादप्राप्यकारि ।
किश्च मनोऽपि द्वेधा भवति भावमनो द्रव्यमनश्च, तत्र न तावद् भावमनसः प्राप्यकारित्वं न्यायक्षमम् , तथाहि- भावमनः चिन्ताज्ञानपरिणामरूपत्वाद् जीवरूपमेव जीवश्च देहमात्रवृत्तिः, नाऽतस्तस्य देहाद् बहिनिस्सरणं युक्तं, न हि देहमात्रवृत्तयो रूपादयो देहाद् बहिनिस्सरन्तो दृष्टाः । न च सर्वगत आत्मा अमूर्तत्वाद् गगनवदित्यनुमानबलेन सर्वगतत्वमात्मनो युक्तं वक्तुम् ; सर्वगतत्वे ह्यात्मनः कर्तृत्वादयो धर्मा गोपाङ्गनादिप्रतीतिसिद्धा नोपपद्यरन् , तथाहि- न कर्ता आत्मा सर्वगतत्वाद् गगनवद्, एवं न भोक्ता, न संसारी, न ज्ञानी, न सुखी, न दुःखी. त्यपि तत एव हेतोस्तेनैव दृष्टान्तेन बोद्धव्यम् ।
ननु नेदं बाधावहं स्वीकुर्वते हि कापिला निष्क्रियत्वादात्मनः कर्तृत्वाद्यभावम् , यदृचुः- " अकतो निर्गुणो भोक्ता आत्मा" इत्यादि तदेतदसारम् , तस्य निष्क्रियत्वे प्रत्यक्षप्रमाणप्रसिद्धभोकृत्वादिक्रियाविरोधप्रसङ्गात् । न च प्रकृतेरेव भोगादिक्रिया पुरुषस्तु पुष्करपलाशवनिर्लेपः, आदर्शप्रतिबिम्बोदयन्यायेनैव क्रियाणां तत्राभ्युपेतत्वादिति परिष्कृतालापः, प्रकृतेरचेतनत्वात् " चैतन्यं पुरुषस्य स्वरूपम्" इति वचनात् , अचेतनस्य च भोगादिक्रियाऽयोगात् । इतरथा घटादीनामपि तत्पसङ्गात् । किश्च सर्वगतत्वे पुरुषस्य नानादेशगतस्रक्-चन्दना-ऽङ्गनादिपरिस्पर्शेऽनवरतसुखासिकाप्रसक्तिः, वह्नि शस्त्र-जलादिसम्बन्धे तु निरन्तरदाहपाटनक्लेदादिप्रसङ्गश्च । यत्रैव शरीरं तत्रैव सर्वमिदं भवतीति चेत् । कुत एतत् ?, आज्ञामात्रादेवेति चेत् । न, तस्येहाविषयत्वात् , सहकारितया तस्य तदपेक्षितव्यमितिचेत् । न, नित्यस्य सहकार्यापेक्षाऽयोगात् , तथाहि- अपेक्ष्यमाणेन सहकारिणा तस्य कश्चिद् विशेषः क्रियते न वा ?, क्रियते चेत् असौ किमर्थान्तरभूतो विपरीतो वा ?, आये न किश्चित् कृतं