________________
न्यायालङ्काराल कृता ।
न्तेऽनेनेति सर्वार्थग्रहणमनिन्द्रियं मनःपदं तस्यैव परिचायकं नामान्तरम् ; नोइन्द्रियमप्येतदेव अत्रापि ग्रहणपदं करणसाधनं तेनात्मनि नाऽतिप्रसङ्गः, तस्य तत्र कर्तृत्वात् । सर्वार्थग्रहणं च श्रुतमनिन्द्रियस्य" इत्यनेन सूत्रेणाऽऽह भगवान् श्रीवाचकमुख्यः, तत्र हि श्रुतपदेन तद्विषयो ग्रहीतव्यः, श्रुतं च मतेरुपलक्षणमिति मतिश्रुतयोर्यो विषयः स मनसो विषय इति निगर्वः, यदाऽऽह स एवोत्तानार्थम्-"मतिश्रुतयोर्निबन्धो सर्वद्रव्येष्वसर्वपर्यायेषु" इति, इन्द्रियवद् मनोऽपि द्विधा द्रव्यमनो भावमनश्च तत्र द्रव्यमनो मनस्त्वेन परिणतानि पुद्गलद्रव्याणि, भावमनश्च ज्ञानावरणीयकर्मक्षयोपशमात्मा लब्धिरात्मनश्वाऽर्थग्रहणोन्मुखो व्यापारविशेष इति ॥ १५॥ संप्रति मनसोपाप्यकारित्वमावेदयति--
तदप्राप्यकारि ॥१६॥
तदिति मनोप्राप्यकारि विषयमप्राप्य परिच्छेदीत्यर्थः ।। 'ननु जागरावस्थायां निद्रावस्थायां वा देहानिर्गत्य सुमेरुशि
खरस्थजिनप्रतिमादिविषयेण मनसोऽभिसम्बन्धोऽनुभवसिद्धः । वदन्ति हि वक्तारोऽमुत्र मे मनो गतमिति प्राप्यकारित्वं मनसो युक्ताभ्युपगममिति चेत् , प्रमत्तगीतमेतद् , विषयसम्पर्के ह्यभ्युपगम्यमानेऽस्य जल-ज्वलनादिविषयपरिचिन्तनकाले अनुग्रहोपघाताववश्यं भवेतां, दृष्टो हि प्राप्यकारिषु स्पर्शन-रसनघ्राण-श्रोत्रेषु कर्कशकम्बलादिस्पर्शने, त्रिकटुकाद्यास्वादने, अशुच्यादिपुद्गलाऽऽघ्राणे, भेर्यादिशब्दाऽऽकर्णने च त्वक्षणनायुपघातः, चन्दना-ऽङ्गना-हंसतूलादिस्पर्शने, क्षीरशर्कराधास्वादने, कर्पूरपुद्गलाद्याघ्राणे, मृदुमन्द्रशब्दादिश्रवणे च शैत्याद्यनुग्रहश्च । एवं च यदि मनोऽपि विषयाभिसम्बन्धमादधीत, स्यात् खल्वस्य जल-चन्दनादिचिन्तनकाले पिपासोपशमाउनुग्रहः, वह्नयादिचि