________________
५२
प्रमाणपरिभाषा
नाभसं श्रोत्रं रूपादिषु सन्निहितेषु शब्दस्यैवाऽभिव्यञ्जकत्वादित्यप्यसाम्प्रतम् , शब्दे नभोगुणत्वस्य प्रतिषेत्स्यमानत्वात् । एतेनेदमपि प्रत्युक्तं, शब्दः स्वसमानजातीयविशेषगुणवतेन्द्रियेण गृह्यते सामान्यविशेषवत्त्वे सति बाबै केन्द्रियप्रत्यक्षत्वात् , बायैकेन्द्रियप्रत्यक्षत्त्वे सति अनात्मविशेषगुणत्वाद्वा रूपादिवदिति । ततो नेन्द्रियाणां प्रतिनियतभूतकायत्वं व्यवतिष्ठते प्रमाणाभावात् । प्रतिनियतेन्द्रिययोग्यपुद्गलारब्धत्वं तु द्रव्येन्द्रियाणां पतिनियतभावेन्द्रियोपकरणभूतत्वाऽन्यथानुपपत्ते?क्तिकमेवेति॥१३॥
इदानीमसाधारणकार्योपदेशेन लक्षणमिन्द्रियाणामाविकरोतिस्पर्श-रस-गन्ध-रूप-शब्दास्तदर्थाः॥१४॥
तेषामिन्द्रियाणां ग्राह्या अर्थाः स्पर्शादयः, क्रमेण स्पर्शग्रहणं स्पर्शनम् , रसग्रहणं रसनम् , गन्धग्रहणं घ्राणम् , रूपग्रहणं चक्षुः, शब्दग्रहणं श्रोत्रम् । सर्वत्र करणेऽनदप्रत्ययस्तेन नात्मन्यतिप्रसङ्गः। तत्र स्पर्शाः मृदु-कठिन-गुरु-लघु-शीतोष्ण-स्निग्ध-रुक्षाः । अत्राऽन्त्याश्चत्वार एवाऽणुषु भवन्ति स्कन्धेषु पुनर्यथासम्भवमष्टावपि वेदितव्याः, रसास्तिक्त-कटु-कषाया-ऽऽम्ल-मधुराः, लवणो मधुरान्तर्गत एवेत्यन्ये, संसर्गज इत्यपरे, गन्धौ सुरभ्यसुरभी; कृष्णादयो वर्णाः; शब्दो ध्वनिरिति । अत्र च स्पर्शस्याऽऽदौ ग्रहणं स्पर्श सति रस-गन्ध-रूपसद्भावज्ञापनार्थ तेन जलादीनां स्पर्शादिचतुर्गुणत्वं सिद्धं भवति । मनोऽपि पार्थिवाणुवदसर्वगतद्रव्यत्वेन स्पर्शादिमद्वेदितव्यम् । एतेन पृथ्वी गन्धवतीत्यादि प्रलपितमेव तीर्थान्तरीयाणामिति ॥ १४ ॥ __ अथ मनो निरूपयतिसर्वाऽर्थग्रहणमनिन्द्रियं मनः ॥ १५॥ सर्वेऽर्था न तु स्पर्शनादीनां स्पर्शादिवत् प्रतिनियता एव गृह्य