________________
न्यायालङ्कारालङ्कृता ।
५१
दीनां, स्पर्शन- रसन- घ्राण चक्षुः श्रोत्राणि मत्स्योरग-पक्षि- चतुष्पदानां तिर्यग्योनिजानां सर्वेषां च नारक मनुष्य देवानामिति ।
ननु पञ्चैवेन्द्रियाणीति कथं यावता वचना-ऽऽदान-विहरणोसर्गा- नन्दग्रहणानि वाक्-पाणि-पाद-पायूपस्थलक्षणानि अन्यान्यपीन्द्रियाणि सांख्या आहुः ? | सत्यम्, युक्तिरिक्तं पुनरेतत्, ज्ञानहेतूनामेवेन्द्रियत्वेनाधिकारात् चेष्टाविशेषनिमित्तत्वेनेन्द्रियत्वकल्पने चेष्टाविशेषाणामनियतत्वेनेन्द्रियाणां प्रतिनियतसङ्ख्याव्यवस्थानुपपत्तेः । ये तु पृथिव्यप्तेजो- वायुभ्यो घ्राण-रसन-चक्षुःस्पर्शनेन्द्रियभावमाहुस्तदसत् पृथिव्यादीनामन्योन्यं सर्वथा द्रव्यान्तरत्वाभावात् । अन्यथा जलादेर्मुक्ताफलादिपरिणामाभावप्रसङ्गात् । अथ मतं " पार्थिवं घ्राणं रूपादिषु सन्निहितेषु गन्धस्यैवाऽभिव्यञ्जकत्वाद् नागकणिकाविमर्दककरतलवदिति । तदप्यसत्; हेतोः सूर्यरश्मिभिरुदकसे केन चानेकान्तात् । दृश्यते हि तैलाभ्यक्तस्य सूर्यमरीचिकाभिर्गन्धाभिव्यक्तिः, उदकसेकेन च भूरिति । आप्यं रसनं रूपादिषु सन्निहितेषु रसस्यैव व्यञ्जकत्वाद् लालावदित्यत्रापि हेतोर्लवणेन व्यभिचारित्वं तस्याsनाप्यत्वेऽपि रसाभिव्यञ्जकत्वोपलब्धेः । चक्षुस्तैजसं रूपादिसान्निध्ये रूपस्यैवाभिव्यञ्जकत्वात् प्रदीपवदित्यत्रापि हेतोर्माणिक्याद्युद्योतितेन व्यभिचारः । वायव्यं रूपर्शनं रूपादिसन्निधौ स्पर्शस्यैवाऽभिव्यञ्जकत्वात् तोयशतिरूपशेव्यञ्जकवायुवत्, अत्राऽपि जलशीतस्पर्शव्यञ्जक कर्पूरादिना व्यभिचारः । अपिच पृथिव्यप्तेजःस्पर्शाभिव्यञ्जकत्वात्स्पर्शनेन्द्रियस्य पृथिव्यादिकार्यत्वमासज्येत वायुस्पर्शाभिव्यञ्जकत्वाद्वायुकार्यत्ववत् । चक्षुपश्च तेजोरूपाभिव्यञ्जकत्वात् तेजस्कार्यत्ववत् पृथ्वीजलसमवेतरूपव्यञ्जकत्वात् पृथिव्य कार्यत्वाऽनुषङ्गः । रसनस्य च जलीयरसाऽभिव्यञ्जकत्वाद् जलकार्यत्ववत् पृथ्वीरसाभिव्यञ्जकत्वात् पृथ्वीकार्यत्वप्रसङ्गः ।
"
-