________________
न्यायालङ्कारालङ्कृता। ४९ मलक्षणया योग्यतयैव प्रतिनियतार्थप्रकाशकत्वसिद्धेः, तदुत्पत्तावपि च योग्यताऽवश्यमेषितव्या । इतरथाऽशेषार्थसान्निध्येऽपि कुतश्चिदेवार्थात् कस्यचिदेव ज्ञानस्य जन्मेति कौतस्कुतो विभागः । तदाकारतात्वर्थाकारसङ्क्रान्त्या तावदनुपपन्ना, अर्थस्य निराकारत्वप्रसक्तेः, ज्ञानस्य साकारत्वापत्तेश्च । अर्थेन च मूर्तेनाऽमूर्तस्य ज्ञानस्य कीदृशं सादृश्यमित्यर्थविशेषग्रहणपरिणाम एव साभ्युपेया। अपिच, तदुत्पत्तितदाकारते व्यस्ते वा ग्रहणकारणीभवेता समस्त वा ?। आये कपालाद्यक्षणो घटान्त्यक्षणस्य ग्राहकः स्यात्, तस्मात्तदुत्पत्तेः । जलचन्द्रो वा नभश्चन्द्रस्य ग्राहकः स्यात् , तस्य तदाकारत्वात् । अथ समस्ते तर्हि घटोत्तरक्षणः पूर्वघटक्षणस्य ग्राहकः स्यात् , उभयोरप्यनयोस्तत्र सद्भावात् , अथ ज्ञानरूपत्वे सति ते ग्रहणकारणतयाऽभीष्येते इति मतम् । तदपिन, समानजातीयज्ञानस्य समनन्तरज्ञानग्राहकत्वप्रसङ्गात् , तयोर्जन्यजनकभावसद्भावात् । तस्मान्न योग्यतामन्तरेणाऽन्यद् ग्रहणकारणं पश्याम इति । सांव्यवहारिकप्रत्यक्षवदाभासमानं सांव्यवहारिकप्रत्यक्षाभासं, यथा अम्बुधरेषु गन्धर्वनगरज्ञानं; दुःखे सुखज्ञानं च, अत्राद्यन्द्रियकप्रत्यक्षाभासस्य अन्त्यं मानसप्रत्यक्षाभासस्योदाहरणमिति ॥ १२ ॥
इन्द्रियाणीत्युक्तं तत्र कानीन्द्रियाणि ? अत्राहस्पर्शन-रसन-घ्राण-चक्षुः-श्रोत्राणी
न्द्रियाणि ॥ १३॥ स्पृशत्यनेनेति स्पर्शनं स्पर्श गृह्णाति, रसयत्यनेनेति रसनं रसं गृह्णाति, जिघ्रत्यनेनेति घ्राणं गन्धं गृह्णाति, चष्टेऽनेनेति चक्षुः रूपं गृह्णाति, शृणोत्यनेनेति श्रोत्रं शब्दं गृह्णाति, "इदु समृद्धौ" इतीन्दति लोकोत्तरसमृद्धिमान् भवतीतीन्द्र आत्मा तस्य लिङ्गमितीन्द्रियम् , एवमिन्द्रदृष्टमिन्द्रजुष्टमिन्द्रदिष्टमिन्द्रसृष्टमित्यादयो