________________
४८
प्रमाणपरिभाषासम्भवति ?। निमित्तत्वे ह्यर्थक्रियाकारित्वेन तस्यातीतानागतत्वं भज्येत । न च प्रकाशनीयादर्थादात्मलाभ एव ज्ञानस्य प्रकाशकत्वं न्याय्यं, प्रकाश्यादर्थादात्मानमलब्धवतोऽपि दीपकस्य तत्प्रकाशकत्वभावात् । कथं चेश्वरज्ञानस्य नित्यत्वेन स्वीकतस्याऽर्थजन्यत्व सम्भवः ?। अस्मदादीनां जनकस्यैव ग्राह्यस्वाङ्गीकारे स्मृत्यादेरप्रामाण्यप्रसङ्गस्तस्यार्थजन्यत्वाभावात् । न च स्मृतिरप्रमाणमेव, तस्या अनुमानप्रमाणप्राणभूतत्वात् ; साध्यसाधनस्मरणपूर्वकं ह्यनुमानम् , वक्ष्यते च पुरस्तादधिकमत्रत्यमिति ।
येतु सौगता एकान्तक्षणिकमर्थं ज्ञानस्य जनकत्वेनोपयन्ति, तन्मते ज्ञानमेव तावद् दुरुत्पदम् , का कथा तजनकस्याऽर्थक्षणस्य ग्राह्यत्वे। तथाहि- ज्ञानसहभाविनोऽर्थक्षणस्य ज्ञानोत्पादकत्वं न सम्भवति, युगपद् भाविनोः कार्यकारणभावाभावात् । नाऽपि प्राचीनक्षणस्य, तस्य विलीनत्वेन तदुत्पादासम्भवात् । अपि च कारणीभूतार्थक्षणस्य विलये ज्ञानस्य निर्विषयत्वानुषङ्गः, कारणस्यैव तन्मत्या विषयत्वात् तस्य च विलीनत्वाद्, निर्विषयं च ज्ञानमप्रमाणमेव आकाशकेशज्ञानवत् , इति नार्थक्षणादुत्पन्नस्वमुत्पादकस्य च ग्राहकत्वं ज्ञानस्योपपत्तिपदवीमारोहति । किञ्च जनकस्यैव ग्राह्यत्वे इन्द्रियाणामपि तत्प्रसङ्गः, स्वसंवेदनस्य ग्राहकत्वानुपपत्तिश्च तस्य हि स्वरूपमेव ग्राह्यम् , न च तेन तदुत्पादः, खात्मनि क्रियाविरोधात् , तस्मात् स्वसामग्रीप्रभवयोर्घटप्रदीपयोरिवाऽर्थज्ञानयोः प्रकाश्यप्रकाशकभावसम्भवान ज्ञानकारणमर्थ
इति ।
नन्वर्थाऽजन्यत्वे ज्ञानस्य प्रतिनियतकर्मव्यवस्था कथं स्यात् ?; तदुत्पत्ति-तदाकारताभ्यां हि तदुपपत्तिस्तस्मादनुत्पन्नस्याऽतदाकारस्य च ज्ञानस्य सर्वार्थान् प्रत्यविशेषात् । सर्वार्थग्रहणमापद्यतेति चेत् । नैवम् , तदुत्पत्तिमन्तरेणापि आवरणक्षयोपश