________________
न्यायालङ्कारालकृता ।
४७ हि ताभ्यामन्यदिन्द्रियाऽनिन्द्रियनिबन्धनं ज्ञानमस्ति तदाहुः श्रीजिनभद्रगणिक्षमाश्रमणपूज्यपादाः"अकखस्स पोग्गलकया जं दबिन्दियमणा परा तेणं । तेहिं तो जं नाणं परोक्खमिह तमणुमाणं व ॥ १ ॥ इन्दिय-मणोनिमित्तं परोक्खमिह संसयादिभावाओ । तकारणं परोक्खं जहेह साभासमणुमाणं ॥ २ ॥ होन्ति परोक्खाई मइ-सुआई जीवस्स परनिमित्ताओ। पूच्चोवलद्धसंबंधसरणाओ वाणुमाणं व" ।। ३ ॥ __ यत्तु इन्द्रियानिन्द्रियानपेक्षमात्ममात्रसानिध्यमपेक्ष्यसमुत्पद्यते ज्ञानं तद् वास्तवं प्रत्यक्षं यथाऽवधि-मनःपर्याय-केवलज्ञानानीति निर्बाधप्रवृत्तिनिवृत्तिरूपसंव्यवहारप्रयोजनकत्वेनोपचारतस्तत्र प्र. त्यक्षत्वमवधेयम् , अत एवास्य सांव्यवहारिकसंज्ञा । अस्य प्रकारानाह- अवग्रहेत्यादि अवग्रहः, ईहा, अवायः, धारणा चेति एतेषां स्वरूपं स्वयं वक्ष्यते सूत्रकार इति । ___ ननु अर्थालोकावपि चक्षुर्ज्ञाने कारणत्वेन कैश्चिदिष्यते तदुक्तम्"रूपालोकमनस्कारचक्षुभ्यः संप्रजायते । विज्ञानं मणि-सूर्याशु-गोशकद्भय इवाऽनल" ॥ १॥ इति ।
तत्कथमत्र नोक्तौ ?। उच्यते व्यभिचारित्वेन तयोः कारणत्वानर्हत्वात् । न ह्यालोको ज्ञानस्य साक्षात्कारणीभवितुमर्हतः, मरुमरीचिकादौ जलाभावेऽपि जलज्ञानस्य, वृषदंशादीनामालोकाभावेऽपि मुष्टिग्राह्यतमःपटलप्रदेशस्थवस्तुप्रतिपत्तेश्च दर्शनात् ; इति नास्ति ज्ञानस्य अर्थालोकापेक्षानियमः, यश्च यं नियमेनापेक्षते स्वोत्पत्तौ असौ तस्य कारणं भवति यथा दण्डः कलशस्य, न चापेक्षते नियमेन ज्ञानमुक्तरीत्यार्थालोको इति न तत् तत्कारणकम् । किश्च योगिभिरतीताऽनागतार्थग्रहणेऽर्थस्य निमित्तत्वं कुतः
८