________________
४६
प्रमाणपरिभाषा -
अवधिस्तु देवनारकमानुषतिरथां चतुर्णामपि संभवति, तत्र चाद्यद्वयस्य भवप्रत्ययः पक्षिणामित्र वियद्गमनम् ; चरमद्वयस्य च गुणप्रत्ययः । विषयकृतो यथा रूपिद्रव्येष्वसर्वपर्यायेषु अवधिज्ञानस्य तदनन्तभागे पुनर्मनः पर्यायस्यावकाश इति ॥ ११ ॥
पारमार्थिकप्रत्यक्षं लक्षयित्वा सभेदं निरूप्य च सांव्यवहारिकप्रत्यक्षं सलक्षणनिर्देशं भेदयतिइन्द्रियानिन्द्रियनिमित्तमवग्रहेहावाय धारणाभेदं सांव्यवहारिकम् ॥ १२ ॥
इन्द्रियाणि स्पर्शनादीनि वक्ष्यमाणानि तानि निमित्ततया - ऽस्येतीन्द्रियनिमित्तम्, तथा अनिन्द्रियं वक्ष्यमाणं मनस्तन्निमितमस्येत्यनिन्द्रियनिमित्तमिति द्विविधं सांव्यवहारिकप्रत्यक्षम् । ननु इन्द्रियज्ञाने मनोऽपि व्यापिपत्तति कथं नाऽमुना व्यपदेशः ।। उच्यते, इन्द्रियस्याsसाधारणकारणत्वाद्, मनः पुनरनिन्द्रियज्ञानेsपि व्याप्रियते इति साधारणं तद्, व्यपदेशश्वाऽसाधारणेन भवति, दृश्यते हि पयःपवनातपादिजन्यत्वेऽपि अङ्कुरस्य बीजेनैव व्यपदेशः शाल्यङ्करः, कोद्रवाङ्करोऽयमिति । ननु सांव्यवहा रिकमिति कः पदार्थः । उच्यते, समीचीनो व्यवहारः संव्यवहारः, बाधारहितप्रवृत्तिनिवृत्ती इत्यर्थः, ते प्रयोजनमस्येति सांव्यवहारिकम् | वस्तुतस्तु इन्द्रियाऽनिन्द्रियनिबन्धनज्ञानं परोक्षमेव, परनिमित्तत्वाद् अनुमानवत् । न चायमसिद्धो हेतुरिन्द्रियाऽनिन्द्रिये हि पौगलिकत्वाद् मूर्ते; आत्मा तु अमूर्तो मूर्त्ताचाऽतिरिक्तं मूर्त्तमिति आत्मनः परभृते इन्द्रियानिन्द्रिये, ततश्च ततः समुपजायमानं ज्ञानं परोक्षमेव यथा धूमादिलिङ्गद्वारेण समुत्तिष्ठद् धूमध्वजादिविगाह्यनुमानम् " आद्ये परोक्षम्” इति सूत्रयामासुषा भगवता वाचकमुख्यमहर्षिणाऽपि मति श्रुतज्ञानयोः परोक्षत्वमेव प्राकाशि इन्द्रियाऽनिन्द्रियनिमित्ते च मति श्रुतज्ञाने, न