________________
न्यायालङ्कारालङ्कृता ।
नपुंसकादिमोक्षबाधत्वात्मानमुपालभेध्वमिति ॥
यदवदाम"स्त्रियो मुक्ता न स्युर्गमनविकलाः सप्तमभुवा
मिति प्रोचानानां भवति विपरीतो न नियमः । तथा चाऽभव्यादेरपि तदनुषङ्गः सुदुरसो
ऽनुमानं सिद्धान्तोऽपि च तदमृते खल्वभिमुखः" ॥१॥१०॥ निरूपितं केवलज्ञानम् , इदानीं मनःपर्याया-ऽवधी दर्शयतिक्षायोपशमिको मनःपर्यायावधी ॥११॥
वीर्यान्तरायक्षयोपशमसहकृतेन स्वस्वावरणक्षयोपशमेन मनःपर्यायस्याऽवधेश्च समुत्पत्तिर्भवति । ननु क्षायोपशमिकत्वस्य लक्षणत्वेनेष्टत्वे मतिश्रुतज्ञानयोरपि तत्सद्भावादतिप्रसङ्ग इति चेत् । न,पारिमार्थिकत्वविशिष्टक्षायोपशमिकत्वस्य तत्राऽभावात्, तयोरिन्द्रियानिन्द्रियनिमित्तोत्पादत्वेन उक्तलक्षणपारमार्थिकत्वस्य विरहात् । अत्र मनःपर्यायज्ञानस्य संयमविशुद्धिप्रभवत्वाद् न * विपर्ययः । एवं घातिकर्मप्रलयसमुत्थत्वात् केवलज्ञानस्यापि ।
अवधिज्ञानाभासं तु भवति यथा शिवनाम्नो राजर्षेरसङ्ख्यातद्वीपसमुद्रेषु सप्तद्वीपसमुद्रज्ञानम् , विभङ्गज्ञानमप्यस्य नामान्तरमेवेति । नन्वनयोः कः प्रतिविशेषः । उच्यते, विशुद्धिकृतः क्षेत्रकृतः स्वामिकृतो विषयकृतश्चानयोर्भेदः। तत्र विशुद्धिकृतो यथा- अवधिज्ञानाद् विशुद्धतरं मनःपर्याय ज्ञानम् : यावन्ति खलु रूपाणि द्रव्याणि अवधिज्ञानी जानीते; तानि विशुद्धतराणि मनोगतानि मनःपर्यायज्ञानी जानाति । क्षेत्रकृतो यथा अवधिज्ञानमङ्गुलस्याऽसङ्ख्यभागादिषूत्पन्नं भवति आसर्वलोकाद्, मन:पर्यायज्ञानं तु मनुष्यक्षेत्र एव; स्वामिकृतो यथा अवधिज्ञानं संयमिनोऽसंयमिनो वा भवति, मनःपर्याय ज्ञानं पुनः संयमिन एव । तथाच मनुष्याणामेव संयमाधिकारात् त एव तदधिकारिणः;