________________
४२
प्रमाणपरिभाषा
वमपि नियमस्याऽभ्युपगमप्रसङ्गात् । नपुंसकादिमोक्षप्राप्तेधिकत्वे त्वन्यत्राऽपि समान एव स्त्रीजनमोक्षाभावप्रसङ्गो बाधकः । न चासाविष्ट एव अन्यत्राऽपि तथाप्रसङ्गात् । - वयं त्वेकतरमप्यनयोर्नियमं नाङ्गीकुर्मः, स्वाभिनिवेशितार्थाऽनुगुणनियममङ्गीचक्रुषो भवतः प्रति पुनर्विपरीतार्थानुकूलनियममापादयामः, बाधकत्वमबाधकत्वं च न्यायमार्गानुविधायि, न्यायपरिचुम्बितो ह्यर्थोऽनुपपद्यमानो बाधको भवति, तत्र च नपुंसकादिमोक्षप्राप्त्यभावस्य न्याय्यत्वमुभयवाद्यविवादादनुपयुक्तपरामर्शम् , तदनुपपत्तिश्च ततो भवत्येव बाधावहा । स्त्रीजनमोक्षानुपपत्त्यापि तदानीमेव बाधिकया भवितव्यं यदा स्त्रीजनमोक्ष उपपत्तिपदवीं न्यायमहाराजप्रसत्तित आविशेत् , एवं चैष एव साम्प्रतं युक्तचिन्तनः, तथाहि-स्त्रियस्तावत् केवलज्ञानं परब्रह्ममहोदयो वा सम्यग्दर्शनादिसामाग्यभावेन, विशिष्टसामर्थ्याऽसत्त्वेन, पुरुषानभिवन्दनीयत्वेन, अमहर्द्धिकत्वेन, मायाप्रकर्षववेन वाऽसम्भविष्णुरिति । न तावदाद्यः, वक्तव्यं हि किन्निबन्धनस्तासां तदभावः ?, चीवर परिग्रहवत्त्वेन चारित्राभावादिति चेत् , अत्रापि प्रष्टव्य आचक्षीताऽऽयुष्मान् परिग्रहत्वं चीवरस्य किनिवन्धनम् ?, शरीरसम्पर्कमात्रेण परिभुज्यमानत्वेन, मूर्छाहेतुत्वेन वा ? | प्रथमे क्षित्यादिनाऽपि शरीरसम्पर्केण परिग्रहित्वं न स्यादिति का प्रत्याशा ? | द्वितीये परिभुज्यमानत्वममूषामशक्यत्यागतया वा गुरूपदेशाद्वा । न तावदाद्यः पक्षः, सम्पत्यपि हि प्राणानपि संत्यजन्त्यो याः परिदृश्यन्ते तासामैकान्तिकाऽऽत्यन्तिकाऽऽनन्दसम्पदर्थिनीनां बाह्यवीवरं प्रति का नामाऽशक्यत्यागता ? । द्वितीयपक्षोऽपि मन्द एव, यतो विश्वजनीनेन विश्वगुरुणा सर्वविदा भगवता मुमुक्षुपक्ष्मलाक्षीणां यदेव संयमोपकारि तदेव चीवरोपकरणं "नो कप्पदि निग्गंथीए अचेलाए होत्तए" इत्यादिनोपादेशि प्रतिलेखन-कमण्डलुप्रमुखवत,