________________
न्यायालङ्कारालङ्कृता ।
क्षुत्पीडया पीडितं भवति भगवद्वपुर्वपुष्ट्वाद् अस्मदादिवपुर्वत् : इति प्रतिपक्षानुमानेन प्रतिक्षेपात् । इत्थंचाहारनिदानषद्कमध्ये एकतमस्याप्यसिद्धत्वोद्भावनमपाकृतम् , पर्याप्तिवेदनीयोदयाहारपाकनिमित्ततैजसशरीरादिकवलाहारसामग्रीसद्भावस्य प्रागेव प्रतिपादनात् , अत एव निष्प्रयोजनत्वप्रयुक्तः प्रतिषेधोऽपि कवलाहारस्य प्रतिषिद्ध एवेति साधकप्रमाणसद्भावाद् बाधकानवकाशाच्च समुपपन्नः कवलाहारः केवलिनामिति ।
उक्तं चाऽस्माभिः"भुक्ति केवलिनः समाकलयतोऽप्यौदारिकं भूघनं
सत्त्वे वेदनकर्मतैजसवपुःपर्याप्तिहेतोरपि । व्यासेधन् यदि वेद्यकर्म निगदेद् निर्दग्धरज्जुस्थितीत्येतनागमिकं भवेदितरथा कस्माद् भवोपग्रहः ?" ॥१॥९॥ अथ केवलज्ञानस्याऽधिकारित्वं व्यनक्तिअधिकारिणौ पुंस्त्रियौ ॥ १० ॥
तस्य केवलज्ञानस्याऽधिकारिणौ पुमान् स्त्री च, उभयत्रापि तत्साधकसामग्रीसद्भावसम्भवात् । "इको वि नमुक्कारो जिणवरवसहस्स वद्धमाणस्स । संसारसागराओ तारेइं नरं वा नारी वा" ॥१॥
इत्यागमेनापि पुरुषतुल्यकक्षतया स्त्रियः केवलज्ञानाधिकारित्वप्रतिपादनात् । न चायमागमो भवदीयोऽस्मान् प्रत्यप्रमाणं भवतो यज्ञानुष्ठानाऽऽगमवदिति सुभाषितम् । अप्रामाण्यप्रसाधकन्यायाऽभावात् । यत्तु " अयं हि तावनियमोऽस्ति यद्वेदस्य मोक्षहेतुपरमप्रकर्षः, तद्वेदस्य सप्तमपृथ्वीगमनकारणाऽपुण्यप्रक
र्षोऽप्यस्त्येवेत्यूचे प्रभाचन्द्रः, तद्वालविलसितम् । एवंविधाऽविनाभावस्य प्रमाणाऽपरिस्पर्शित्वात् ; इतरथा यद्वेदस्य सप्तमपृथिवीगमनकारणाऽपुण्यप्रकर्षस्तद्वेदस्य मोक्षहेतुपरमप्रकर्ष इत्ये