________________
प्रमाणपरिभाषा
के लज्ञानेन सह न विरोधमाधत्ते केवलिनि भवद्भिरपि तदुरीकारात् । न च मोहसहकृतं तत् तत्र कारणं, गत्यादिकर्मणामिवाऽमुष्याऽपि मोहसाहायकरहितस्यैव तत्र तत्साधकत्वात् । इति न केवलिनि केवलेन किश्चित् कारणं व्याहतमस्ति, नापि तत्कार्यम् । न च कवलाहारे रसनेन्द्रियोद्भवं मतिज्ञानं विरुध्यते, तावन्मात्रेण तदभावात् ; इतरथा सुरविसरनिरन्तरपरिमुक्तकुसुमपरिमलादिसम्बन्धाद् घ्राणेन्द्रियज्ञानमपि प्रकटीस्यात् ।
न च ध्यानविघ्नोऽपि सम्भवति अन्यथा गमनादिपरिणामभावेऽपि तदापत्तेः। न च परोपकारप्रतिबन्धः, तृतीययाममुहूर्त एव तेषां भुक्तेः स्वीकारात् शेषमशेषकालं तत्सम्भवात् । न च विसूचिकादिव्याध्युदयः, परिज्ञाय हितमिताहाराभ्यवहारात् । न च जुगुप्सितं पुरीषादिकर्म स्यादिति वक्तव्यम् ? । एतावता हि क्षुत्क्षामकुक्षीभवनीयमिति कैमो न्यायः। यो हि यस्य स्वभावः, असावमुमाविष्कुर्यादेव, न च केवलेन तद्विरोधसिद्धिः। ____ किश्च जुगुप्सापि कस्य समापद्यतेति वक्तव्यम् ?, न तावद् भगवतस्तस्य निर्मोहत्वात् । अथान्येषाम् , एवं तु सुरासुरेन्द्रसमाकुलायां परिषदि भगवतो नाग्न्यपरिदर्शनेनाप्यसौ तेषां दुर्वारा। सातिशयत्वाद्भगवतो न कोऽपि तन्नाग्न्यं परिद्रष्टुमधीष्टे इति चेत् पुरीषादिकर्मण्यपि तथैव प्रतिपत्तव्यम् । तदुक्तम्"आहारनीहारविधिस्त्वदृश्यश्चत्वार एतेऽतिशयाः सहोत्थाः" । ___ इति; सामान्यकेवलिनां तु विविक्तप्रदेशे तद्विधानाद् न दोषः। मोहनीयसमुत्थे तु निद्रा-रिरंसे मोहनीयं प्रक्षीणवतो भगवतः कुतः सम्भवतः ? । नातः कार्यव्याघातोऽपि कश्चित्सावकाशः ।
न चाऽनन्तवीर्यवतोऽल्पीयसी क्षुदकिश्चत्करेति मतं सम्यक् प्रमाणाऽभावात् , लोके स्पष्ट व्यभिचारदर्शनात् । न चैवंविधमेव वपुर्भगवतो यत्क्षुत्पीडया बाधितं न भवति,