________________
३८
प्रमाणपरिभाषारोऽपि केवलिगतगति-स्थितिप्रभृतिक्रियाणां निरीहत्वपूर्वकत्वेन भवतामप्यभिमतत्वात् स्ववचसैवोत्थितपतितः। अस्मदादाविति विकल्पे तु सिद्धसाध्याः स्मः । सामान्येन मोहस्य कारणत्वे गति-स्थित्यादिष्वपि तस्य कारणत्वं वक्तव्यम् , एवं च तीर्थेश्वराणां तीर्थप्रवृत्तिः कुतः स्यात् ?, इति चिन्तनीयम् , मोहायभावेन तेषां गमनादिक्रियानुपपत्तेः । अथ तत्र गत्यादिकमैव कारणम् , हन्त ! तर्हि कवलाहारेपि वेदनीयादिकमैव कारणं न मोह इति किमन्याय्यम् , तस्य भवद्भिरपि तत्र स्वीकारात् । न च स्वीकृतमपि तत्तत्र दग्धरज्जुस्थानिकमिति न कार्यानुगुणमिति शक्यं वक्तुम् , आगमाभावात् ; आगमेऽत्यन्तसातोदयस्य केवलिनि प्रतिपादनात् ; युक्तिरपि, यदि घातिकर्मक्षयात् केवलज्ञानादिकमुदियात् , एतावता वेदनीयाशुद्भवायाः क्षुधः किमायातं येनाऽसौ नाऽऽविःस्यात् ?, सातासातयोरन्तर्मुहूर्तपरिवर्त्तमानतया सातोदयवद् असातोदयोऽपि भगवत्यस्त्येव, इति सत्यपि अनन्तवीर्यत्वे भवत्येव क्षुदुद्भवपीडादि, परिनिष्ठितार्थः पुनर्भगवानदः कथं वृथा सहेतेति प्रेक्षणीयम् । ___अपि च औदारिकशरीरस्थितिः कथं कवलाहारमन्तरेण केवलिनः सम्भवति ?, अनन्तवीर्यत्वेन तं विनापि तदुपपादने छद्मस्थावस्थायामपि कवलाहारो न करणीयः स्यात् तदानीमपि अनन्तवीर्यत्वचकासनात् “एकादश जिने" इति च वाचकमुख्यपादा अपि मूत्रयामासिवांसः। क्षुत्पिपासादीनेकादश परीपहान् भगवति केवलिनि अभ्युपजग्मुः, वेदनीयस्य दग्धरज्जुस्थानिकत्वे कथमेषोऽभ्युपगमश्चतुरस्रः स्यादिति चिन्त्यम् ।
"तेषां तत्रोपचारेण प्रतिपादनात्- उपचारनिमित्तं च वेदनीयसद्भावमात्रम्" इति जजल्प प्रभाचन्द्रः। तन्मिथ्या; मुख्यार्थवाधाऽभावे उपचारस्याऽसम्भवात् । यत्तु अनन्तसुखा