________________
न्यायालङ्कारालङ्कृता ।
हन्येत आन्तरं वा ? । बाह्यमपि भोजनीयं वस्तु तदुपकरणंपात्रादि औदारिकशरीरं वा ? । न प्रथमं यदि हि केवल ज्ञानेन कवलनीयपुद्गला विरोधमादधीरन् तदा अस्मदादिज्ञानेनापि ते न विरुध्येरनिति का प्रत्याशा?। न हि भवति तरुणतरणिकिरणनिकरण ध्वान्तपटलं विरोधं बिभ्राणं प्रदीपालोकेनापि तथा न भवेदिति । न द्वितीयम् , तीर्थेश्वराणां हि पाणी एव पात्रम् । अन्येषां सामान्यकेवलिनां तु स्वरूपमात्रेण पात्रादिकं विरोधि, ममकारादिद्वारा वा ?। प्रथमस्तु,पूर्वयुक्त्या प्रत्युक्त एव । ममकारस्तु निर्मोहत्येन तेषां सम्भवत्येव न । नच पात्रादिसद्भावे ममकाराऽवश्यम्भाव इति वाच्यम् ?, शरीरभावेऽपि तद्भावप्रसङ्गात् । औदारिकशरीरं तु विरोधमाविष्कुर्वाणं केवलोत्पत्तिसमनन्तरमेव नामावशेषीस्यात् । ___आन्तरमपि कारणं शरीरं वा कर्म वा? । तत्र, तैजसं शरीरं तु भुक्तिकारणं न विरोधधारणधीरं, तस्य भवद्भिरपि तदानीं तेषामुपगमात् । कर्मापि घाति, अघाति वा । आद्येऽपि, ज्ञानदर्शनावरणे वाऽन्तरायो वा मोहरूपं वा। न तावदाद्यो विकल्पः सुन्दरः, न हि ते ज्ञानदर्शनावरणमात्रेण चरितार्थे कवलाहारकारणत्वेन शकनीये वक्तुम् । न द्वितीयः प्रत्युतान्तरायविरह एव कवलादनकारणम् , अन्तरायविरहे च तत्र भवतामपि न वैमत्यम् । .
मोहोऽपि बुभुक्षालक्षणः, सामान्येन वा । प्रथमे, सर्वत्राप्यसौ कारणमस्मदादावेव वा?। नायः, न हीच्छापूर्विका सर्वा क्रिया सम्भवतीत्यस्ति नियमः । नन्वेष दर्शयामि प्रमाणं, या या चेतनक्रिया सा सा इच्छापूर्विका, यथा सम्प्रतिपन्ना तथा च केवलिनि भुजिक्रिया तस्मात्सापीच्छापूर्विका, भवति हि प्रथम जानाति तत इच्छति अनन्तरं यतते ततः करोतीति सार्वलोकिकोऽनुभवः ?। एतदसारम् , सुप्त-प्रमत्त-मूञ्छितादिक्रियाभियभिचारात् । स्ववशचेतनक्रियाया इच्छापूर्वकत्वनियमाङ्गीका