________________
प्रमाणपरिभाषाननु प्रतिपद्यामहे तादृशनिरतिशयज्ञानसुभगमर्हत्परमेश्वरम् । औदारिकशरीरं बिभ्राणोऽप्यसौ कवलाहारे व्यापिपत्तीति पुनः का वाचोयुक्तिः ? । न ह्यनन्तवीर्यस्य कृतकृत्यस्य भगवतः कवलाहारे किश्चित्प्रयोजनं पश्यामः। न च निष्प्रयोजना प्रवृत्तिः सङ्गच्छते प्रेक्षावताम् न चाहारादाननिदानषटकमध्ये एकस्याऽपि भगवति सम्भवसम्भावना; न चासति कारणे कार्योत्पादोऽतिप्रसङ्गात् । न चाहारानादाने प्राणवृत्तिर्न सम्भवति भगवतः, अनपवायुष्ट्वात् , अनन्तवीर्यत्वाच्च, अनेन संयमादेरपि आहारकारणकत्वाभिधानं मन्दमेव, सर्वज्ञोऽपि कृतकृत्योऽपि भगवानाहारमाहारयतीति महत्कुतूहलमित्यभिप्रेयुषो नमाटान् प्रबोधयितुमाह
अविरोधी कवलाहारः ॥९॥ तस्येति वर्त्तते उत्तरत्र च तस्य केवलज्ञानस्य अविरोधी कवलाहारः, न हि केवलज्ञानेन केवलाहारो विरोधमाविभर्ति येन केवलज्ञानसद्भावदशायामौदारिकशरीरभृतोऽपि भगवतः कवलाहारप्रतिषेधो न्याय्यः स्यात् , तथाहि- साक्षात् कवलाहारः केवलज्ञानेन विरोधमाविभर्तिः स्वव्यापकादिविरोधद्वारा वा ?। न तावदायः, न ह्यस्ति सम्भवः कवलप्राप्तिनं भवेत् केवलिनः, प्राप्तानपि वा कवलान् न पारयेदाहर्तुम् , समर्थोऽपि वा नाहरेत् केवलपलायनद्वापरेणेति, अन्तराय-केवलावरणयोः समूलं भगवता निर्मूलितत्वात् । नापि द्वितीयः, कवलाहारव्यापकव्याघातासम्भवात् , तद्व्यापकं हि शक्तिविशेषवशत उदरकन्दराकोणे क्षेपस्तस्य च केवलसद्भावेऽपि नासम्भवसम्भावना, वीर्यान्तरायकर्मणः परिक्षीणत्वाद, तत्र तत्क्षेपहेतोः शक्तिविशेषस्य सम्भवात् ।
कारणव्याघातोऽपि न वक्तव्यः कारणं हि बाह्यं वा व्या