________________
न्यायालङ्कारालङ्कृता। ३५ फलं ददाति चेत् सर्व तत्तेनेह प्रचोदितम् । अफले पूर्वदोषः स्यात् सफले भक्तिमात्रता ॥ ७॥ आदिसर्गेऽपि नो हेतुः कृतकृत्यस्य विद्यते । प्रतिज्ञातविरोधित्वात् स्वभावोऽप्यप्रमाणकः ॥ ८ ॥ कर्मादेस्तत्स्वभावत्वे न किश्चिद् बाध्यते विभोः । विभोस्तु तत्स्वभावत्वे कृतकृत्यत्वबाधनम् ॥९॥ ततश्चेश्वरकर्तृत्ववादोऽयं युज्यते परम् । सम्यग्न्यायाऽविरोधेन यथाहुः शुद्धबुद्धयः ॥ १० ॥ ईश्वरः परमात्मैव तदुक्तव्रतसेवनात् । यतो मुक्तिस्ततस्तस्याः कर्ता स्याद् गुणभावतः ॥ ११ ॥ तदनासेवनादेव यत्संसारोऽपि तत्त्वतः । तेन तस्यापि कर्तृत्वं कल्प्यमानं न दुष्यति ॥ १२ ॥ कर्ताऽयमिति तद्वाक्ये यतः केषाश्चिदादरः। अतस्तदानुगुण्येन तस्य कर्तृत्वदेशना ॥ १३ ।। परमैश्वर्ययुक्तत्वाद् मत आत्मैव वेश्वरः। स च कर्तेति निर्दोषः कर्तृवादो व्यवस्थितः" ॥ १४ ॥
इति श्रीमद्भगवद्धरिभद्रमूरिपूज्यपादवदनारविन्दनिर्गलद्वचनमकरन्दसन्दर्भः।
एतेन भू-भूधरादिकं बुद्धिमत्कर्तृकं कार्यत्वाद् घटादिवदित्यनुमानं परकीयं व्याप्त्यसिद्धिविरोधादिदोषाघ्राततयाऽनादरणीयम् , नित्यमुक्तात्मेश्वरः प्रतिक्षिप्तश्च, प्रयोगश्च-न नित्यमुक्तो भवितुमर्हतीश्वरो मुक्तत्वाद्, अन्यमुक्तवदिति । बन्धापेक्षया च मुक्तव्यपदेशः, तद्रहिते तु नासौ सम्भवति गगनवत् , इत्यहनेव तादृशनिरतिशयप्रज्ञामलङ्करिष्णुः परमेश्वरपदवीमदीधरत्तस्मात् । "ध्यातव्योऽयमुपास्योऽयमयं शरणमिष्यताम् । अस्यैव प्रतिपत्तव्यं शासनं चेतनाऽस्ति चेत्" ॥१॥ इति ॥८॥