________________
३४
प्रमाणपरिभाषा -
व्याप्तत्वात् प्रेक्षप्रवृत्तेः, तदेकतरस्यापि चेश्वरेऽसम्भवात्, व्यापकानुपलम्भेन जगत्सृष्टिर्नोपपद्यते महेशितुः । यदाहुः परमेश्वरं स्तुवन्तः श्रीहेमचन्द्रप्रभुपादाः" अदेहस्य जगत्सर्गे प्रवृत्तिरपि नोचिता । न च प्रयोजनं किञ्चित् स्वातन्त्र्यान्न पराज्ञया ॥ १ ॥ क्रीडया चेत्प्रवर्तेत रागवान् स्यात् कुमारवत् । कृपयाऽथ सृजेत्तर्हि सुख्येव सकलं सृजेत् ॥ २ ॥ दुःख - दौर्गत्य - दुर्योनिजन्मादिक्केशविह्वलम् । जनं तु सृजतस्तस्य कृपालोः का कृपालुता १ ॥ ३ ॥ कर्मापेक्षः स तु तर्हि न स्वतन्त्रोऽस्मदादिवत् । कर्मजन्ये च वैचित्र्ये किमनेन शिखण्डिना ? ॥ ४ ॥ अथ स्वभावतो वृत्तिरवित मशितुः । परीक्षकाणां तर्ह्येष परीक्षाक्षेपडिण्डिमः || ५ ॥ सर्वभावेषु कर्त्तृत्वं ज्ञातृत्वं यदि संमतम् । मतं नः सन्ति सर्वज्ञा मुक्ताः कायभृतोऽपि हि ॥ ६ ॥ इति "ईश्वरः प्रेरकत्वेन कर्त्ता कैश्विदिष्यते । अचिन्त्य चिच्छक्तियुक्तोऽनादिसिद्धव सूरिभिः ॥ १ ॥ ज्ञानमप्रतिघं यस्य वैराग्यं च जगत्पतेः । ऐश्वर्य चैव धर्म सहसिद्धं चतुष्टयम् ॥ २ ॥ अज्ञो जन्तुरनीशोऽयमात्मनः सुख-दुःखयोः । ईश्वरप्रेरितो गच्छेत् स्वर्ग वा श्वभ्रमेव वा ॥ ३ ॥ अन्ये त्वभिदधत्यत्र वीतरागस्य भावतः । इत्थं प्रयोजनाभावात् कर्तृत्वं युज्यते कथम् १ ॥ ४ ॥ नरकादिफले कांश्चित् कांश्चित् स्वर्गादिसाधने । कर्मणि प्रेरयत्याशु स जन्तून्केन हेतुना । ॥ ५ ॥ स्वयमेव प्रवर्त्तन्ते सत्त्वात चित्रकर्मणि । निरर्थकमिहेशस्य कर्तृत्वं गीयते कथम् ॥ ६ ॥
-