________________
न्यायालङ्कारालङ्कृता ।
"सत्यमेवासि निर्दोष युक्ति-शास्त्राऽविरोधिवाक् । अविरोधो यदिष्टं ते प्रसिद्धेन न वाध्यते ॥ १ ॥ त्वन्मतामृतवाह्यानां सर्वथैकान्तवादिनाम् । आप्ताभिमानदग्धानां खेष्टं दृष्टेन बाध्यते " ॥ २ ॥
३३
इतरे तु आगमा न्यायशृङ्खला विकलत्वात् पूर्वापरविरोधदुर्गन्धत्वात्, लोकविरुद्ध हिंसादिदुष्टकर्मोपदेशाच्चाऽऽगमाभासा एवेति सुतरां तत्प्रणेतारः क्षुद्रबुद्धय इति स्पष्टं प्रेक्षारूपाणां चेतसि जागृयात् ।
यदाह कलिकालसर्वज्ञो भगवान् श्रीहेमचन्द्रः
“हिंसाद्य सत्कर्मपथो-पदेशादसर्वविन्मूलतया प्रवृत्तेः । मृशंस दुर्बुद्धिपरिग्रहाच्च ब्रूमस्त्वदन्यागममप्रमाणम्" ॥१॥ श्रुति-स्मृतीतिहास-पुराणेष्वपि तीर्थान्तराधिपानां चरित्रस्य पृथग्जनेभ्योऽपि कुत्सापदरूपेणोपलम्भात्, सर्वज्ञसम्पदासम्पन्नत्वाभिमानस्तत्र विना महामोहविलसितं किमन्यद्धेतुको " वक्तव्यः ॥
अनेन च सृष्टेरन्यथानुपपच्या परमेश्वरं प्रसाधयतां परेषां सुव्यक्त एव प्रतिभाप्रमादः । न हि परमेश्वरोऽपि जगन्निर्मातुं कुलालवद् व्यापिपर्त्ति, निष्प्रयोजनत्वात् । प्रयोजनवतो हि सम्भवति प्रवृत्तिः, कृतकृत्यस्य निर्दोषस्य अनन्तज्ञानाम्भोधौ रममाणस्य वीतरागस्य परमेश्वरस्य किं परिशिष्यते, यदर्थं जगनिर्माणे प्रवर्त्तेत । अथ कारुण्येन जगत्सृष्टिरित्यभिप्रायः सोऽपि न यौक्तिकः, परदुःखप्रहाणेच्छा हि कारुण्यम्, ततः सर्गात्प्राग् जीवानामिन्द्रियविषयशरीरानुत्पत्तौ स्वतः सिद्धे दुःखाभावे कस्य प्रहाणेच्छा नाम कारुण्यं संघटेत ?| सर्वोत्तरकाले दुःखिनः प्राणिनः समवलोक्य कारुण्याभ्युपगमे तु परस्पराश्रयावतारःकारुण्येन हि सृष्टिः सृष्टितच कारुण्यमिति स्वार्थकारुण्याभ्यां
५