________________
३२
प्रमाणपरिभाषा -
पापेक्षा नास्तीत्यपि सुवचत्वात्, अप्रामाण्यं प्रति दोषाणामन्वयव्यतिरेकौ भवत इति चेत् ? । न, प्रामाण्यं प्रत्यपि गुणानां तयोः सत्त्वात्, ननु पौरुषेयविषये इयं भवतु व्यवस्था, अपौरुषेये तु दो· षनिवृत्त्यैव प्रामाण्यमिति चेद्, न । गुणनिवृच्याप्रामाण्यस्यापि सम्भवात्, तस्या अप्रामाण्यं प्रति, सामर्थ्य नोपलब्धमिति चेद्, दोषनिवृत्तेः । प्रामाण्यं प्रति सामर्थ्य कोपलब्धमित्युच्यताम् ?, लोकवचसीति चेत्, समानं तदप्रामाण्ये दोषा एव कारणं गुणनिवृत्तिस्तु अवर्जनीयसिद्धसन्निधिरिति चेत्, प्रामाण्यं प्रत्यपि गुणेषु तुल्यमेतद् गुणानां दोषोत्सारणप्रयुक्तः सन्निधिरिति चेद्, दोषाणामपि गुणोत्सारणप्रयुक्त इत्यस्तु । निःस्वभावत्वमेवमपौरुषेय वेदस्य स्यादिति चेदात्मानमुपालभखेति वचनमात्रं पौरुषेयमेव कक्षीकर्त्तव्यं तथैव सर्वेषामनुभवसिद्धेरिति कृतमधिकेन । इति साधकप्रमाणसद्भावाद् बाधकानवकाशाच्चाऽव्याहतप्रसरा सर्वज्ञसिद्धिरिति । उक्तत्रिश्लोकी तु गुणपदस्थाने दोषपदं दोषपदस्थाने च गुणपदं प्रक्षिप्योचितपाठा ।
न चानुपलम्भमात्रस्य सर्वज्ञाभावसाधकत्वम् ; तस्य प्रांगेव प्रतिक्षेपाद्, योग्यानुपलम्भस्तु प्रकृते नास्ति नातस्ततस्तदभावसिद्धिः, सर्वज्ञज्ञानस्य चातीन्द्रियत्वात् ; नाऽशुच्यादिदर्शनतद्रसास्वादनदूषण समवतारः । अतीते काले चाडतीतं यथा-वर्त्तिष्ट, भविष्यति च यथा भविष्यति, वर्त्तते च यथा वर्त्तमाने, तथैव त्रैकालिकार्थानां युगपदधिगमो भवति सर्वविदः, नानुपपन्नः खलु सामान्येन स्वभ्यस्तसकलशास्त्रार्थस्येव अशेषविशेषकलितसर्ववस्तूनां युगपत्प्रतिभास इति सामान्यतः सर्वज्ञसिद्धावपि अनेव सर्वज्ञपदवीमलङ्कर्तुमलं निर्दोषत्वात् । न चाऽयमसिद्धः प्रमाणाऽविरोधिवाक्त्वेन तस्य सिद्धेः । न चेदमनुपपन्नं तदभिमतानेकान्ततत्त्वस्य प्रमाणेनाऽबाधात् ।
तदुक्तम् —