________________
न्यायालङ्कारालङ्कृता ।
यद्वा वक्तुरभावेन न स्युर्दोषा निराश्रयाः॥२॥ दोषाः सन्ति न सन्तीति पौरुषेयेषु चिन्त्यते । वेदे कर्तुरभावात्तु दोषाशकैव नास्ति नः" ॥३॥ इति
तत्तुच्छम्-अपौरुषेयवचनासम्भवात् , उच्यते, स्थानकरणाभिघातपूर्वकं पुरुषेण प्रतिपाद्यते इति हि वचनं तत्कथमपौरुषेयं भवति, तदिदं परस्परं व्याहतमपौरुषेयं च वचनं चेति । न चामूर्तस्य सतोऽपि अदर्शनं नाऽयुक्तमिति युक्तं प्रमाणाभावात् , अभिव्यञ्जकवशात् शब्दश्रवणमेव प्रमाणमिति चेन्। मैवम् , जन्यत्वेऽप्युपपत्तेः, एकशब्दाभिव्यक्त्यै स्थानकरणाभिघाते इतरेषामपि तद्देश्यानां तेषामभिव्यक्तिप्रसक्तेश्च । न च शब्दानां प्रतिनियतव्यञ्जकव्यङ्ग्यता शक्या वक्तुं व्यङ्गयान्तरेषु तथाप्रत्ययाऽभावात् ।
"गृहे दधिघटीं द्रष्टुमाहितो गृहमेधिना ।
अपूपानपि तद्देश्यान् प्रकाशयति दीपकः" ॥१॥
इति पुनरनुभवात् , यदाह मुनिकणादः- "अभिव्यक्ती 'दोषात्" इति । किश्च शब्दो यदि व्यङ्गयो भवेद् न तर्हि चैत्रो वक्तीत्येवमातोऽपि चैत्रस्तथाभूतेन शब्देन अनुमितः स्यात् , न हि भवति प्रदीपादिय॑ञ्जको घटादिव्यङ्गयेनाऽनुमागोचरः । इति युक्तिरिक्तमेव वचनस्याऽपौरुषेयत्वम् ।
अपिच, प्रमायाः ज्ञानसामान्यहेत्वतिरिक्तहेत्वधीनत्वेन वेदेऽपि गुणाश्रयः कश्चित्पुरुषविशेषोऽवश्यं माननीयः, न चासिद्धं ज्ञानहेत्वतिरिक्तहेत्वधीनत्वम् , ज्ञानविशेषत्वादिहेतुना अप्रमावत् , प्रमायामपि तत्सिद्धेः, यदि च ज्ञानसामान्यहेतुमात्राधीना प्रमा स्यात् , अप्रमापि प्रमा स्यात् अस्ति हि तत्र ज्ञानसामान्यसामग्री अन्यथा ज्ञानत्वमेव जह्यात् । तथा च शाब्दप्रमायामपि तादृशगुणाश्रयःकश्चित्पुरुषः सिद्धिसौधमारोहति । न च शब्दे विप्रलिप्साद्यभावे वक्तगुणापेक्षा नास्तीति युक्तं वक्तुं गुणाभावे तदप्रामाण्यस्य वक्तृदो