________________
३०
' प्रमाणपरिभाषाबाधेत, इतरथा वा? आये स्ववचसैव सर्वज्ञतासिद्धिः, द्वितीये न हि सम्भवति सकलदेशकालाकलनविकलस्य तस्य तादृशज्ञानाभावप्रत्यायनपटिमा। अपिच संविदामिन्द्रियागोचरत्वात , ऐन्द्रियमध्यक्षं सकलप्रत्यक्षस्य विधौ निषेधे वा मूकमेव वराकमिति । - नाप्यनुमानं तद्बाधकं धर्मिग्राहकप्रमाणाभावेऽनुमानाऽप्रवृत्तेः, धर्मिग्राहकप्रमाणसद्भावे तु तेनैव तस्य बाधकस्य बाधितत्वात् कुतो बाधकानुमानोत्थानसम्भवः ? । अथ विवादाध्यासितः पुमान् सर्वज्ञो भवितुं नार्हति वक्तृत्वात् , पुरुषत्वाद् वा रथ्यापुरुषवदित्यनुमानेन सर्वज्ञतां निराचिकीर्षेः । तदप्यसत् , प्रमाणपरिदृष्टार्थवक्तृत्वस्य तत्र हेतूकारे तादृशवक्तत्वस्य सर्वज्ञ एव भावेन हेतोर्विरोधाघ्रातत्वात् , असद्भूतार्यवक्तृत्वस्य हेतूकृतौ सिद्धसाध्यतानुषङ्गात् , वक्तृत्वसामान्यस्य हेतूचिकीर्षायां सन्दिग्धविपक्षव्यावृत्तिकत्वेन हेतोरनैकान्तिकस्वात् । एवं पुरुषत्वमपि रागाद्यदृषितं हेतूकृतं तदा विरोधः, विपरीतं चेत् सिद्धसाधनम् , पुरुषत्वसामान्यं तु पूर्वोक्तवंदनकान्तिकम् । ... ." आगमोऽपि यदि सर्वज्ञप्रणीतस्तदा कुतः स्वाश्रयभञ्जकः । विपरीतस्त्वप्रमाणमेव, अपौरुषेयं तु वचनं सम्भवत्येव न । यत्तूक्तं चोदना हि भूतं भवन्तं भविष्यन्तं सूक्ष्मं स्थूलं व्यवहितं विप्रकृष्टमेवंजातीयकमर्थमवगमयितुं शक्नोति, नाऽन्यत् किञ्चनेन्द्रियमिति । चोदना चापौरुषेयत्वेन पुरुषगतानां दोषाणामप्रवेशात् प्रमाणमेव । - यदाह- "शब्दे दोषोद्भवस्तावद् वक्त्रधीन इति स्थितम् । .
तदभावः कचित्तावद् गुणवद्वक्तृकत्वतः ॥१॥ तद्गुणैरपकृष्टानां शब्दे सक्रान्त्यसम्भवात् ।। .