________________
२८
प्रमाणपरिभाषामनःपर्यायज्ञानम् , अवधिज्ञानं चेति त्रयः॥६॥ : तत्र केवलज्ञानस्य स्वरूपमाविष्करोति__ योगाद् घातिकर्मप्रक्षये सर्वद्रव्य
पर्यायगोचरं केवलम् ॥ ७॥ .. योगः सम्यग्दर्शन-ज्ञान-चारित्राणि तस्य दीर्घकालनिरन्तरसत्काराऽऽसेरितस्य प्रकर्षपर्यन्ते ध्यानविशेषेण ज्ञानावरणदर्शनावरण-मोहनीया-ऽन्तरायरूपाणां चतुर्णामात्मनो मूलखरूपहननाद् घातिशब्देन व्यपदेश्यानां कर्मणां प्रकर्षेण सर्वथा क्षये ध्वंसे सति सर्वाणि द्रव्याणि पर्यायाश्च गोचरत्वेन विषयतया सन्ति अस्मिन्निति इन्द्रियादिसाहायकविरहात्, सकलवस्तुविषयत्वात् , असाधारणत्वाच्च केवलाभिधानेनाभिधेयं ज्ञानमाविर्भवति ।
यदाहुः श्रीजिनभद्रगणि-क्षमाश्रमणपूज्यपादाः
"अह सव्वदव्वपरिणामभावविन्नत्तिकारणमणंतं । । सासयमप्पडिवाई एगविहं केवलन्नाणं" ॥१॥ इति
न चासङ्गतो ज्ञानावरणाद्यभ्रपटलापगमे केवलप्रकाशस्वभावस्याऽऽत्मनो लोकालोकावगाहनस्वभावप्रकाशप्रसरः, न चासम्भवं प्रकाशखभावस्याप्यात्मनः चन्द्राकोदे रजोऽभ्रपटलादिभिरिव ज्ञानावरणादिकर्मभिरावरणम् । नानुपपन्नश्च बलवता ध्यानविशेषेण वायुनेवामीषां प्रलयः, नायुक्तश्चानादेरपि कर्मणः स्वर्णमलस्य क्षारमृत्पुटपाकादिनेव प्रतिपक्षभूतयोगविशिष्टाभ्यासेन परिक्षयः । न्याय्यं च अमूर्तस्याप्यात्मनोऽमू याश्चेतनाशक्तेमदिरादिनेव कर्मभिरावरणमिति ।। __ ननु लोकालोकावभासिना तादृशज्ञानेन सर्वज्ञतायां किं प्रमाणम् । मानाधीना हि मेयसिद्धिः, मानानपेक्षवस्त्वभ्युपगमे गगनकुसुम-कूर्मरोम-नरविषाणादेरप्यभ्युपगमप्रसङ्गः ॥७॥