________________
न्यायालङ्कारालङ्कृता।
२७
प्रमाणसामान्यस्वरूपं यथार्थज्ञानं साक्षात्करणं चेत् तत्सत्यक्षमित्यर्थः, सामान्यलक्षणानुवादेन विशेषलक्षणविधानात् , तथाच प्रत्यक्षं साक्षात्करणयथार्थज्ञानं भवति प्रत्यक्षतायास्तथैवोपपत्तेः । असाक्षात्करणं हि अनुमानादिज्ञानं न प्रत्यक्षमिति साक्षाकरणयथार्थज्ञानस्यैव प्रत्यक्षत्वसिद्धिः । ननु साक्षात्करणमिति कोऽर्थ इति ? । उच्यते, साक्षात्करोति अयं नीलः, सुरभिर्गन्धः, मृदुलः स्पर्शः, तारः शब्दः, मधुरो रस इत्येवमनुमानाद्यतिरेकेण इदंरूपतया परिच्छिनत्ति विषयमनेनेति साक्षात्करणं तथाभूतं ज्ञानं प्रत्यक्षमित्यर्थः; साक्षात्करोमीतिसार्वलौकिकानुभवसिद्धज्ञानत्वव्याप्यजातिमत्त्वं वा प्रत्यक्षत्वम् । प्रभुपादाः श्रीहेमसूरयस्तु "विशदं प्रत्यक्षम्" इति प्रत्यक्षं लक्षयित्वा प्रमाणान्तरानपेक्षत्वं वैशद्यमित्यपि परिचस्क्रुः । इह च प्रत्यक्षलक्षणशून्यं तद्वदाभासमानं प्रत्यक्षाभासं तच्चाभिधास्यमानपारमार्थिकसांव्यवहारिकरूपप्रत्यक्षविशेषाभासोदाहरणैरेवोदाहृतमवसेयम् ।। ४ ।। - इदानीं पारमार्थिक-सांव्यवहारिकभेदेन द्विविधस्य प्रत्यक्षस्य आद्यं पारमार्थिकस्वरूपं प्रकाशयति--
आत्ममात्राऽपेक्षं पारमार्थिकम् ॥५॥
प्रत्यक्षमिति वर्त्तते, इन्द्रियाऽनिन्द्रियपरिहारेण आत्ममात्रस्य अपेक्षा यस्योत्पत्तौ तदात्ममात्रापेक्षम् , परमार्थे भवं पारमार्थिकं क्षय-क्षयोपशमविशेषशालिनं ह्यात्मानमेवाऽपेक्ष्यैतदुदयः । पारमार्थिकप्रत्यक्षस्वरूपविहीनस्तद्वदाभासमानः पारमार्थिकमत्यक्षाभासः, उदाहरणमग्रे द्रष्टव्यम् ॥ ५॥
पारमार्थिकप्रत्यक्षभेदानाहकेवल-मनःपर्याया-ऽवधयस्तद्विधयः ॥६॥
तस्य पारमार्थिकप्रत्यक्षस्य विधयः प्रकाराः, केवलज्ञानम् ,